इन्द्राणीसप्तशती

॥ प्रथमं गायत्रं शतकम् ॥

॥ प्रथमः शशिवदनापादः ॥

हरिललने मे पथि तिमिराणि । हरदरहासद्युतिभिरिमानि ॥ १॥

अगतिमवीर्यामपगतधैर्याम् । अवतु शची मे जनिभुवमार्याम् ॥ २॥

श‍ृणु करुणावत्यलघुमखर्वे । स्तवमहमार्यस्तव शचि कुर्वे ॥ ३॥

त्रिजगदतीतो विलसति नित्यः । अणुरणुतो यो भगवति सत्यः ॥ ४॥

त्वमखिलकार्येष्वयि धृतसक्तिः । उरुगतिरस्य प्रभुतमशक्तिः ॥ ५॥

विदुरिममेके जगति महेन्द्रम् । जगुरयि केचिज्जननि महेशम् ॥ ६॥

अवगतवेदो वदति महेन्द्रम् । परिचिततन्त्रो भणति महेशम् ॥ ७॥

जननि शचि त्वं प्रथमदलस्य । भगवति दुर्गास्यपरदलस्य ॥ ८॥

न शचि शिवातस्त्वमितरदैवम् । बहुमुनिवाणीसमरसतैवम् ॥ ९॥

दिवि च सिताद्रौ शचिवपुषोर्वाम् । पृथगुपलम्भादयि भिदयोक्तिः ॥ १०॥

तनुयुगमूलं वपुरतिमायम् । करचरणाद्यैर्वियुतममेयम् ॥ ११॥

त्वमुदरवर्तित्रिभुवनजीवा । भवसि शची सा जननि शिवा वा ॥ १२॥

विभुशुचिकीलाततिरयि धूमम् । त्वममरमार्गं बत वमसीमम् ॥ १३॥

जयसि नभस्थो जननि परस्तात् । नभसि च भान्ती भवसि पुरस्तात् ॥ १४॥

त्वमतनुरम्ब ज्वलसि परस्तात् । इह खशरीरा लससि पुरस्तात् ॥ १५॥

जननि परस्तान्मतिरसि भर्तुः । असि खशरीरा पृथगवगन्त्री ॥ १६॥

अणुचयरूपं भगवति शान्तम् । न भवति शून्यं तदिदमनन्तम् ॥ १७॥

दिवि दधतीशे पुरुषशरीरम् । जननि पुरन्ध्री तनुरभवस्त्वम् ॥ १८॥

दृशि विलसन्तं प्रभुमुपयान्ती । भवसि विराट् त्वं नृतनुषु भान्ती ॥ १९॥

तव गुणगानं जननि विधातुम् । भवति पटुः को वियदिव मातुम् ॥ २०॥

भगवति तृप्तिर्भवतु न वा ते । अभिलषिताप्तिर्भवतु न वा मे ॥ २१॥

भजति तवाङ्घ्रिं मम खलु भाषा । पति मनुरागात् प्रियमिव योषा ॥ २२॥

अघमपहर्तुं शुभमपि कर्तुम् । अलमजरे ते गुणगणगानम् ॥ २३॥

अवसि जगत्त्वं कुलिशिभुजस्था । अव मुनिभूमिं गणपतिधीस्था ॥ २४॥

शशिवदनाभिर्गणपतिजाभिः । शशिवदनाद्या परिचरिताऽस्तु ॥ २५॥

॥ द्वितीयस्तनुमध्यापादः ॥

ध्वान्तं परिहर्तुं तेजांस्यपि भर्तुम् । अन्तर्जगदम्बा हासं कुरुतान्मे ॥ २६॥

भीतामरिधूतामार्यावनिमेताम् । सम्राज्ञि बुधानां दूनामव दीनाम् ॥ २७॥

ईशस्य सहायां विश्वस्य विधाने । आकाशशरीरामम्बां प्रणमामः ॥ २८॥

कर्तुर्भुवनानां मायासि शचि त्वम् । सत्यस्य तपोऽसि ज्ञस्यासि मनीषा ॥ २९॥

आज्ञासि विनेतुस्तेजोऽसि विभातः । निर्यत्नसमाधेरानन्दरसोऽसि ॥ ३०॥

तस्य त्वमनन्याऽप्यन्येव खकाया । अत्यद्भुतमाया जायाऽसि सहाया ॥ ३१॥

आकाशशरीरां जायामशरीरः । आलिङ्ग्य विभुस्त्वां नन्दत्ययि चित्रम् ॥ ३२॥

वज्रेश्वरि घस्रे यद्वन्मुकुटेन । दीप्तेन सवित्र मूर्धा तव भाति ॥ ३३॥

नक्षत्रसहस्रैश्शुभ्रद्युतिभिस्ते । पुष्पायितमेतैर्मातर्निशिमस्ते ॥ ३४॥

घस्रः खलु कालो राज्यं ननु कर्तुम् । रात्रिः खलु कालो रन्तुं रमणेन ॥ ३५॥

निःशब्दतरङ्गास्वग्लौषु निशासु । नूनं खशरीरे कान्तं रमयन्ती ॥ ३६॥

सान्द्रोडुसुमस्रग्विभ्राजितकेशा । ध्वान्तासितचेला शान्ताऽप्यसि भीमा ॥ ३७॥

राजन्मिततारामन्दारवतंसाम् । मातस्सितभासा स्मेरां हसितेन ॥ ३८॥

ज्योत्स्ना घनसारद्रावैरनुलिप्ताम् । त्वां वीक्ष्य न शान्तिः कस्य क्षणदासु ॥ ३९॥

बालारुणरोचिः काश्मीररजोभिः । आलिप्तमुखीं त्वां प्रातः प्रणमामि ॥ ४०॥

सायं समयश्री लाक्षारसरक्तम् । प्रत्यक् प्रसृतं ते वन्दे वरदेऽङ्घ्रिम् ॥ ४१॥

दीप्तार्ककिरीटां सर्वान् विनयन्तीम् । वन्दे भुवनानां राज्ञीमसमानाम् ॥ ४२॥

धूताखिलरोगाः श्वासास्तव वाताः । मातर्वितरन्तु प्राणस्य बलं नः ॥ ४३॥

प्राञ्चस्तव वाताः स्वासाः शमुशन्तु । प्रत्यञ्च एमे नः पापं शमयन्तु ॥ ४४॥

मन्मातरवाञ्चो वीर्यं वितरन्तु । सन्तापमुदञ्चः सर्वं च हरन्तु ॥ ४५॥

अस्या इव भूमेर्भूतप्रसवायाः । एकैकश आहुर्येषां महिमानम् ॥ ४६॥

अद्रेरुपलानां नद्याः सिकतानाम् । येषां च न कध्च्छिक्तो गणनायाम् ॥ ४७॥

रोमायितमेतैर्गोलैस्तव काये । व्याख्यातमनेन श्लाघ्यं तव भाग्यम् ॥ ४८॥

विश्वं वहसीदं जम्भारिभुजस्था । आर्यान्वहमातर्वासिष्ठमतिस्था ॥ ४९॥

आद्यां भुवनानां भर्तुस्तनुमध्याम् । भक्त्स्य भजन्तामेतास्तनुमध्याः ॥ ५०॥

॥ तृतीयो मुकुलपादः ॥

हासाः शक्रगृहेश्वर्याश्चन्द्ररुचः । भूयासुर्विमलप्रज्ञायै हृदि मे ॥ ५१॥

इन्द्राण्याः करुणा लोकाश्शोकहृतः । भूयासुर्भरतक्ष्मायै क्षेमकृतः ॥ ५२॥

व्यक्तिर्व्योमतनुः शक्तित्वाद्वनिता । ज्ञातृत्वात्पुरुषः केषाञ्चिद्विदुषाम् ॥ ५३॥

व्यक्तिं व्योमतनुं ये प्राहुः पुरुषम् । तेषां तत्त्वविदां कल्पस्स्यात् त्रिविधः ॥ ५४॥

रुद्रं केऽपि जगुः शक्रं केऽपि विदुः । भाषन्ते भुवनप्राणं केऽपि विदः ॥ ५५॥

व्यक्तिं व्योमतनुं प्राहुर्ये वनिताम् । तेषां च त्रिविधः कल्पश्शास्त्रविदाम् ॥ ५६॥

दुर्गा सूरिवरैः कैश्चित्सा गदिता । शच्यन्यैर्विबुधैर्ज्ञैरन्यैरदितिः ॥ ५७॥

एकेषां विदुषां व्यक्तिर्व्योमतनुः । न स्त्री नो पुरुषो ब्रह्मैतत्सगुणम् ॥ ५८॥

त्वं विश्वस्य महान् प्राणः कः परमे । त्वं रुद्रः प्रणवस्त्वं शक्रोऽभ्रशिखी ॥ ५९॥

त्वं कस्यास्यदितिस्त्वं रुद्रस्य शिवा । त्वं शक्रस्य शची शक्तिर्देवनुते ॥ ६०॥

प्राणश्च प्रणवो ज्योतिश्चाम्बरगम् । वस्त्वेकं त्रिगुणं नो वस्तु त्रितयम् ॥ ६१॥

शक्तेरम्बपरे शक्त्स्यापि भिदा । ज्वाला पावकवद्भाषा भेदकृता ॥ ६२॥

सर्वं दृश्यमिदं भुञ्जाने परमे । पुंनामस्तुतयो युज्यन्ते खलु ते ॥ ६३॥

कुर्वाणेम्बसतस्सन्तोषं सततम् । स्त्रीनामस्तुतयः शोभां ते दधते ॥ ६४॥

सद्ब्रह्म ब्रुवते विद्वांसो विगुणम् । त्वं मातस्सगुणं ब्रह्मासि प्रथिते ॥ ६५॥

शब्दाद्यैर्वियुतं सद्ब्रह्मामलिनम् । शब्दाद्यैः सहिता त्वं देव्यच्छहिता ॥ ६६॥

साक्षि ब्रह्म परं त्वं मातः कुरुषे । सर्वेषां जगतां कार्यं सर्वविधम् ॥ ६७॥

द्यौर्माता जगतो द्यौरेवास्य पिता । व्याप्तं भाति जगद्द्यावा सर्वमिदम् ॥ ६८॥

आकाशाद्रजसो द्यौरन्या विरजाः । आकाशेऽस्ति पुनस्तत्पारे च परा ॥ ६९॥

द्यावं तां जगतो रङ्गे व्योमतनुम् । पारे शुद्धतमां विद्मस्त्वां परमे ॥ ७०॥

त्वां पूर्णामदितिं शक्तिं देवि शचीम् । नित्यं शब्दवतीं गौरीं प्रब्रुवते ॥ ७१॥

पुंनामा भवतु स्त्रीनामास्त्वथवा । व्यक्तिर्व्योमतनुर्लोकं पात्यखिलम् ॥ ७२॥

नाके सा किल भात्यैन्द्री राज्यरमा । विभ्राणा ललितं स्त्रीरूपं परमा ॥ ७३॥

शक्तां देवि विधेह्यार्तानामवने । इन्द्रस्येव भुजां वासिष्ठस्य मतिम् ॥ ७४॥

पूजाशक्रतरुण्यैतैस्सिध्यतु ते । गातृणां वरदे गायत्रौर्मुकुलैः ॥ ७५॥

॥ चतुर्थो वसुमतीपादः ॥

मोहं परिहरन् योगं वितनुताम् । देवेन्द्रदयिता हासो मम हृदि ॥ ७६॥

आभातु करुणा सा भारतभुवि । सुत्रामसुदृशो यद्वन्निजदिवि ॥ ७७॥

वन्दारुजनतामन्दारलतिकाम् । वन्दे हरिहयप्राणप्रियतमाम् ॥ ७८॥

शोकस्य दमनीं लोकस्य जननीम् । गायामि ललितां शक्रस्य दयिताम् ॥ ७९॥

रम्या सुमनसां भूपस्य महिषी । सौम्या जनिमतां माता विजयते ॥ ८०॥

वीर्यस्य च धियस्त्रैलोक्यभरणे । दात्री मघवते देवी विजयते ॥ ८१॥

व्याप्ता जगदिदं गुप्ता हृदि नृणाम् । आप्ता सुकृतिनां दैवं मम शची ॥ ८२॥

खे शक्तिरतुला पारे चिदमला । स्वश्चारुमहिला दैवं मम शची ॥ ८३॥

शस्त्रं मघवतः शास्त्रं यमवताम् । वस्त्रं त्रिजगतो दैवं मम शची ॥ ८४॥

युक्त्स्य भजतः शर्मान्तरतुलम् । वर्मापि च बहिर्दैवं मम शची ॥ ८५॥

वीर्यं बलवतां बुद्धिर्मतिमताम् । तेजो द्युतिमतां दैवं मम शची ॥ ८६॥

एकैव जनयन्त्येकैव दधती । एकैव लयकृद्दैवं मम शची ॥ ८७॥

शक्तीरवितथाः क्षेत्रोषु दधती । बीजेषु च परा दैवं मम शची ॥ ८८॥

चिन्वन्त्यपि पचन्त्येका पशुगणम् । खादन्त्यपि भवे दैवं मम शची ॥ ८९॥

दृष्टौ धृतचितिर्दृश्ये ततगुणा । विश्वात्ममहिषी दैवं मम शची ॥ ९०॥

राकाशशिमुखी राजीवनयना । स्वः कापि ललना दैवं मम शची ॥ ९१॥

स्थाणावपि चरे सर्वत्र वितता । साक्षाद्भवतु मे स्वर्नाथदयिता ॥ ९२॥

यन्मातरनृतं ध्यातं च गदितम् । जुष्टं च हर मे तद्देवि दुरितम् ॥ ९३॥

मां मोचय ऋणादिन्द्राणि सुभुजे । मामल्पमतयो मा निन्दिषुरजे ॥ ९४॥

शत्रुश्च शचि मे सख्याय यतताम् । दृप्तश्च इमनुजो मामम्ब भजताम् ॥ ९५॥

कष्टं शचि विधूयेष्टं विदधती । आनन्दय जनं प्रेयांसमयि मे ॥ ९६॥

अस्त्रं मम भव ध्वंसाय रटताम् । सुत्रामरमणि श्रीमातरसताम् ॥ ९७॥

सम्पूरयतु मे सर्वं सुरनुता । स्वर्गक्षितिपतेश्शुद्धान्तवनिता ॥ ९८॥

संवर्धय शचि स्वं देशमवितुम् । बाहोरिव हरेर्बुद्धेर्मम बलम् ॥ ९९॥

एतैर्वसुमतीवृत्तैर्नवसुमैः । भूयाच्चरणयोः पूजा जननि ते ॥ १००॥

॥ प्रथमं गायत्रं शतकं समाप्तम् ॥

॥ अथ द्वितीयमौष्णिहं शतकम् ॥

॥ प्रथमः कुमारललितापादः ॥

सुरेश्वरमहिष्याः स्मितं शशिसितं मे । तनोतु मतिमच्छां करोतु बलमग्रय्म् ॥ १०१॥

विधाय रिपुधूतिं निधाय सुदशायाम् । पुलोमतनुजाता धिनोतु भरतक्ष्माम् ॥ १०२॥

पदप्रणतरक्षा विधानधृतदीक्षा । जगद्भरणदक्षा परा जयति शक्तिः ॥ १०३॥

स्वरत्यविरतं सा शनैर्नभसि रङ्गे । ज्वलत्यधिकसूक्ष्मं जगत्प्रभवशक्तिः ॥ १०४॥

महस्तव सुसूक्ष्मं निदानमखिलानाम् । भवत्यखिलमातर्जगत्यनुभवानाम् ॥ १०५॥

जनन्यनुभवानां मतित्वपरिणामे । स्वरो भवति मूलं तवाभ्रहयरामे ॥ १०६॥

य ईश्वरि निदानं समस्तमतिभाने । स्वरो गतिविशेषात्स एव खलु कालः ॥ १०७॥

ज्वलन्त्यभिहिता त्वं विहायसि विशाले । प्रचण्डपदपूर्वा प्रपञ्चकरिचण्डी ॥ १०८॥

स्वरन्त्यखिलबुद्धिप्रदा भवसि गौरी । त्रिकालतनुरम्ब स्मृता त्वमिह काली ॥ १०९॥

महस्स्वर इतीदं द्वयं तदतिसूक्ष्मम् । महेश्वरि तवांशद्वयं परममुक्तम् ॥ ११०॥

महोऽतिशयमाप्तं त्वयि त्रिदिवगायाम् । स्वरोऽतिशयमाप्तः सिताद्रिनिलयायाम् ॥ १११॥

दिवं नयति पूर्वा भुवं युवतिरन्या । द्वयोः प्रकृतिरभ्रं विशालमतिमान्या ॥ ११२॥

न ते दिवि लसन्त्याः पिता तनुभृदन्यः । स्वयं भुवमिमां त्वां सतामवनि विद्मः ॥ ११३॥

सुरारिकुलजन्मा तवेश्वरि पुलोमा । पितेति कविभाषा परोक्षगतिरेषा ॥ ११४॥

वदन्त्यसुरशब्दैर्घनं सजलमेतम् । पुलोमपदमेकं पुराणसतितेषु ॥ ११५॥

प्रकृष्टतरदीप्तिर्गभीरतरनादा । इतो हि भवसि त्वं तटित्तनुरमेये ॥ ११६॥

अरातिरसुरोऽयं विभोर्निगदितस्ते । हयश्च बतगीतः पिता तव पयोदः ॥ ११७॥

प्रियैः किल परे वां परोक्षवचनौघैः । प्रतारितमिवेला जगन्मुनिगणेन ॥ ११८॥

निकृष्टमपि रम्यं यदि त्रिदिवलोके । तवाम्ब किमु वाच्या रुचिस्त्रिदिवनाथे ॥ ११९॥

त्वमम्ब रमणीया वधूस्त्वमिव नाके । त्वया क इव तुल्यां मृदो वदतु लोके ॥ १२०॥

विनीलमिव खांशं विदुस्त्रिदिवमेके । परस्तु वदसि स्वः कविः कमलबन्धुम् ॥ १२१॥

अमुत्रगतशोके महामहसि नाके । नमाम्यधिकृतां तां पुराणकुलकान्ताम् ॥ १२२॥

यदा ममुतपक्वं मदीयमघमुग्रम् । तदिन्द्रकुलकान्ते निवारय समग्रम् ॥ १२३॥

ददातु भरतक्ष्माविषादहरणाय । अलं बलमुदारा जयन्तजननी मे ॥ १२४॥

अतीव ललिताभिः कुमारललिताभिः । इमाभिरमरेशप्रिया भजतु मोदम् ॥ १२५॥

॥ द्वितीयो मदलेखापादः ॥

पौलोम्याः परिशुभ्रज्योत्स्नादृश्यरुचो मे । श्रीमन्तो दरहासाः कल्पन्तां कुशलाय ॥ १२६॥

कारुण्यामृतसिक्ता शक्ता शक्रमहिष्याः । प्रेक्षा भारतभूमेर्दौर्बल्यं विधुनोतु ॥ १२७॥

वन्दे निर्जरराज्ञीं सङ्क्ल्पे सति यस्याः । साध्यासाध्यविचारो नैव स्यादणुकोऽपि ॥ १२८॥

सङ्क्ल्पस्तव कश्च्चिचत्ते चेद्दिव ईशे । स्यादुल्लङ्घ्य निसर्गं सिद्धिर्निष्फलता च ॥ १२९॥

मूढोऽप्युत्तमरीत्या सिध्येदध्ययनेषु । मेधावी च नितान्तं नैव स्यात्कृतकृत्यः ॥ १३०॥

उत्पद्येत महेश्वर्यप्राज्ञादपि शास्त्रम् । यायान्मातरकस्माद्विभ्रान्तिं विबुधोऽपि ॥ १३१॥

अल्पानामबलानां सङ्ग्रामे विजयः स्यात् । शक्तानां बहुलानां घोरा स्यात्परिभूतिः ॥ १३२॥

राजेरन्नृपपीठेष्वख्यातानि कुलानि । स्याद्दुर्धर्षबलानां पातो राजकुलानाम् ॥ १३३॥

निर्यत्नोऽपि समाधेर्विन्देद्देवि समृद्धिम् । योगस्याम्ब न पश्येदभ्यस्यन्नपि सिद्धिम् ॥ १३४॥

अत्यन्तं यदसाध्यं नेदिष्ठं भवतीदम् । साध्यं सर्वविधाभिः स्यादिन्द्राणि दविष्ठम् ॥ १३५॥

गायामो मुनिसङ्घैर्गेयां कामपि मायाम् । इन्द्रस्यापि विनेत्रीं त्रैलोक्यस्य च धात्रीम् ॥ १३६॥

विद्यानामधिनाथे कां विद्यां श्रयसे त्वम् । इन्द्रं कर्तुमधीनं विश्वस्मादधिकं तम् ॥ १३७॥

नित्यालिर्मिनीषे स्त्रीमोहो न वितर्क्यः । भ्रूचेष्टानुचरत्वादन्या स्यादनुकम्पा ॥ १३८॥

सौन्दर्यं परमन्यद्वजेरद्दर्यथवा ते । हर्तुं यत्सुखमीष्टे तादृक्तस्य च चित्तम् ॥ १३९॥

चक्षुर्दर्शनमात्रन्निस्तेजो विदधानम् । चित्तं चोज्झितधैर्यं मत्तानां दनुजानाम् ॥ १४०॥

गर्ते दुर्जनदेहे मग्नान् पङ्क्विलग्नान् । प्राणानात्मसजातीनुद्धर्तुं धृतदीक्षम् ॥ १४१॥

वज्रं निर्जरराजो यद्धत्ते समरेषु । त्वच्छक्तेः कलयैतन्मन्मातर्निरमायि ॥ १४२॥

राज्ञीत्वात्परमेते राजत्वं शतमन्योः । निश्शक्तिस्स विना त्वां कामाज्ञां कुरुतां नः ॥ १४३॥

सर्वं शक्रनिशान्तस्येशाने तव हस्ते । अस्माकं तु धियेदं स्तोत्रं सङ्ग्रहतस्ते ॥ १४४॥

गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम् । बिभ्राणा नयसि त्वं मार्जालीव किशोरम् ॥ १४५॥

गृह्ण्न्नम्बरनाथामम्बामश्लथमन्धः । कीशस्येव किशोरो योगी गच्छति गम्यम् ॥ १४६॥

पूर्णात्मार्पणहीनोऽप्यज्ञाताऽपि समाधेः । नित्यं यो जगदम्ब त्वां सेवेत जपाद्यैः ॥ १४७॥

तं चाचञ्चलभक्तिं कृत्वा पूरितकामम् । निष्ठां दास्यसि तस्मै पौलोमि क्रमशस्त्वम् ॥ १४८॥

भिन्नां सङ्घसहस्रैः खिन्नां शत्रुभरेण । पातुं भारतभूमिं मातर्देहि बलं मे ॥ १४९॥

त्र्यैलोक्यावनभारश्रान्तां वासवकान्ताम् । हैरम्ब्यो मदलेखाः सम्यक् सम्मदयन्तु ॥ १५०॥

॥ तृतीयो हंसमालापादः ॥

सुरुचिर्वज्रपाणेस्सुदृशो मन्दहासः । हरतान्मोहमूलं हृदयस्थं तमो मे ॥ १५१॥

अमृतं सङ्किरन्त्या प्रसरन्त्येह दृष्ट्या । सुरराज्ञी बलाढ्यां भरतक्ष्मां करोतु ॥ १५२॥

अमृताम्भः किरन्ती करुणाम्भो वहन्ती । नतरक्षात्तदीक्षा शचि मातस्तवेक्षा ॥ १५३॥

कृतपीयूषवृष्टिस्ततकल्याणसृष्टिः । विहितैनोविनष्टिर्धृतविज्ञानपुष्टिः ॥ १५४॥

भृतदेवेन्द्रतुष्टिर्यमिनां देवगृष्टिः । मम काम्यानि देयात्तव विश्वाम्ब दृष्टिः ॥ १५५॥

जगतां चक्रवर्तिन्यसितस्ते कटाक्षः । जलदो भक्तिभाजां शिखिनां नर्तनाय ॥ १५६॥

सुकृती कोऽपि नाट्ये बहुले तत्र मातः । जगते सारभूतानुपदेशान्करोति ॥ १५७॥

अपरो नव्यकाव्यान्यनवद्यानि धन्यः । विदधात्यप्रयत्नाद्बुधभोगक्षमाणि ॥ १५८॥

इतरो भाग्यशाली रमणीयैः प्रसङ्गैः । वितनोति स्वजातिं जगति श्रेष्ठनीतिम् ॥ १५९॥

जगतां मातरेको महसा पुण्यशाली । विधुतारिः स्वदेशं कुरुते वीतपाशम् ॥ १६०॥

पर इन्द्राणि साधुर्बत विस्मृत्य विश्वम् । रमते सिक्तगण्डः प्रमदाश्रुप्रदानैः ॥ १६१॥

तव रागार्द्रदृष्ट्या दिवि शक्रस्य नाट्यम् । करुणासिक्तदृष्टया भुवि भक्त्स्य नाट्यम् ॥ १६२॥

तव सप्रेमदृष्टिर्बलमिन्द्रे दधाति । तव कारुण्यदृष्टिर्बलमस्मासु धत्ताम् ॥ १६३॥

तव वामाः कटाक्षाः प्रभुमानन्दयन्तु । उचितो दक्षिणानामयमस्त्वीक्षणानाम् ॥ १६४॥

सुकृतानां प्रपोषं दुरितानां विशोषम् । करुणार्द्रा विभान्ती तव दृष्टिः क्रियान्नः ॥ १६५॥

कुरु पादाब्जबन्धोः सरणिं निस्तमस्काम् । शचि विज्ञानतेजः किरतावीक्षितेन ॥ १६६॥

क्रिययाराधयन्तो भुवने ते विभूतीः । इह केचिल्लभन्ते तव मातः कटाक्षान् ॥ १६७॥

स्फुटविज्ञानपूर्वं प्रभजेरन् यदि त्वाम् । स्थिरया देवि भक्त्या किमु वक्तव्यमीशे ॥ १६८॥

कुविधेर्विस्मरन्ती भरतक्ष्मा शचि त्वाम् । बहुकालादभाग्ये पतिता देव्ययोग्ये ॥ १६९॥

अभिषिक्त्स्य माता तव तेजोंशभूता । सुदशां सेवमानामनयत्पश्चिमाशाम् ॥ १७०॥

अयि कालं कियन्तं दयसे पश्चिमस्याम् । इत इन्द्राणि पूर्वामवलोकस्व दीनाम् ॥ १७१ ॥

न वयं पश्चिमस्याश्शचि याचामनाशम् । कृपयैतां च पूर्वां निहताशामवाशाम् ॥ १७२॥

सकलं व्यर्थमासीदयि दीनेषु दृष्टा । तव विश्वस्य मातः करुणैकावशिष्टा ॥ १७३॥

सुरराजस्य कान्ते नरसिंहस्य सूनुम् । बलवन्तं कुरु त्वं भरतक्ष्मावनाय ॥ १७४॥

रुचिराभिर्निजाभिर्गतिभिर्हर्षयन्तु । मरुतां भर्तुरेतास्तरुणीं हंसमालाः ॥ १७५॥

॥ चतुर्थो मधुमतीपादः ॥

दिशि दिशि प्रसरद्रुचितमोदमनम् । हरतु मे दुरितं हरिवधूहसितम् ॥ १७६॥

हरतु दुःखभरप्रसृतमश्रुजलम् । भरतभूसुदृशो बलजितो रमणी ॥ १७७॥

अतितरां महिता सुरपतेर्वनिता । करुणया कलिता मम शची शरणम् ॥ १७८॥

त्रिभुवनक्षितिराड्भुवनभूषणभा । अखिलभासकभा मम शची शरणम् ॥ १७९॥

सततयुक्तसुधीहृदयदीपकभा । निखिलपाचकभा मम शची शरणम् ॥ १८०॥

रविविरोचकभा शशिविराजकभा । भगणशोभकभा मम शची शरणम् ॥ १८१॥

गगनखेलकभा सकलचालकभा । अभयदाऽतिशुभा मम शची शरणम् ॥ १८२॥

रुचिलवङ्गतया यदनघांशुनिधेः । हृततमोभवनं भवति दीपिकया ॥ १८३॥

स्फुरति चारु यतः किरणमेकमिता । जलदसौधतले मुहुरियं चपला ॥ १८४॥

भवति यद्द्युतितः कमपि भागमितः । पविररातिहरः प्रहरणेशपदम् ॥ १८५॥

भवति यत्सुरुचेरणुतमांशमिता । युवमनोमदनी सुवदनास्मितभा ॥ १८६॥

विततसूक्ष्मतनुर्महति सा गगने । परमपूरुषभा मम शची शरणम् ॥ १८७॥

अमरनाथसखी रुचिनिधानमुखी । अमृतवर्षकदृङ् मम शची शरणम् ॥ १८८॥

अविधवा सततं युवतिरेव सदा । अनघवीरसुता मम शची शरणम् ॥ १८९॥

अमृतवत्यधरे सुरधरापतये । चरणयोर्भजते मम शची शरणम् ॥ १९०॥

स्मितलवेषु सिता शिरसिजेष्वसिता । चरणयोररुणा बहिरपि त्रिगुणा ॥ १९१ ॥

कपटचन्द्रमुखी प्रकृतिरिन्द्रसखी । मृतिजरारहिता मम शची शरणम् ॥ १९२ ॥

कृशतमेप्युदरे त्रिभुवनं दधती । जनिमतां जननी मम शची शरणम् ॥ १९३ ॥

स्थिरतरा मनसि स्थिरतमा वचसि । नयनयोस्तरला मम शची शरणम् ॥ १९४॥

मृदुतरा करयोर्मृदुतमा वचसि । भुजबले कठिना मम शची शरणम् ॥ १९५॥

मृदुलबाहुलताऽप्यमितभीमबला । असुरदर्पहरी मम शची शरणम् ॥ १९६॥

अबलयाऽपि यया न सदृशोऽस्ति बले । जगति कश्चिदसौ मम शची शरणम् ॥ १९७॥

अतितरां सदया पदरते मनुजे । खलजने परुषा मम शची शरणम् ॥ १९८॥

गणपतिं कुरुताद्भरतभूम्यवने । अमरभूमिपतेः प्रियतमा सबलम् ॥ १९९॥

मधुरशब्दततीर्मधुमतीरजरा । गणपतेश्श‍ृणुयात्सुरपतेस्तरुणी ॥ २००॥

॥ द्वितीयमौष्णिहं शतकं समाप्तम् ॥

॥ अथ तृतीयमानुष्टुभं शतकम् ॥

॥ प्रथमः पथ्यावक्त्रपादः ॥

हसितं तन्महाशक्तेरस्माकं हरतु भ्रमम् । यत एव महच्चित्रं विश्वमेतद्विजृम्भते ॥ २०१॥

राजन्ती सर्वभूतेषु सर्वावस्थासु सर्वदा । माता सर्गस्य चित्पायात् पौलोमी भारतक्षितिम् ॥ २०२॥

धर्मिज्ञानं विभोस्तत्त्वं धर्मो ज्ञानं सवित्रि ते । व्यवहृत्यै विभागोऽयं वस्त्वेकं तत्त्वतो युवाम् ॥ २०३॥

इन्द्रेशवासुदेवाद्यैः पदैः सङ्कीत्र्यते विभुः । शची शिवा महालक्ष्मीप्रमुखैर्भवती पदैः ॥ २०४॥

अन्तरं वस्तुनो ज्ञातृ तच्छक्तं परिचक्षते । शाखाः समन्ततो ज्ञानं शक्तिं सङ्कीर्तयन्ति ताम् ॥ २०५॥

अन्तरस्य च शाखानामैक्यं निर्विषयस्थितौ । विषयग्रहणेष्वेव सविभागः प्रदृश्यते ॥ २०६॥

स्यादेवं विषयापेक्षी शाखानामन्तरस्य च । अविभक्तैकरूपाणां विभागो हरितामिव ॥ २०७॥

लक्ष्यमन्तर्वयं चक्रे ध्यायामो यत्र निष्ठिताः । अन्तरीभावतस्तस्य नान्तरं तु विलक्षणम् ॥ २०८॥

अहङ्कृतेर्वयं नान्ये यत्राहङ्कृतिसम्भवः । सम्पद्येतान्तरं तत्र ज्ञानस्य ज्ञातृतावहम् ॥ २०९॥

अन्तरावर्तभूयस्त्वादेकस्मिन् बोधसागरे । बोद्धारो बहवोऽभूवन् वस्तु नैव तु भिद्यते ॥ २१०॥

चिद्रूपे मातरेवं त्वं परस्माद्ब्रह्मणो यथा । न देवि देवतात्मभ्यो जीवात्मभ्यश्च भिद्यसे ॥ २११॥

समस्तभूतबीजानां गूढानामन्तरात्मनि । तवोद्गारोऽयमाकाशो मातस्सूक्ष्मरजोमयः ॥ २१२॥

न सर्वभूतबीजानि वस्तूनि स्युः पृथक् पृथक् । त्वयि प्रागविभक्तानि बभूवुरिति विश्रुतिः ॥ २१३॥

यथाम्बस्मृतिबीजानां प्रज्ञायामविशेषतः । तथा स्याद्भूतबीजानामविभक्त्स्थितिस्त्वयि ॥ २१४॥

नाणूनि भूतबीजानि प्राक्सर्गात्त्वयि संस्थितौ । चितिशक्त्यात्मकान्येव निराकाराणि सर्वथा ॥ २१५॥

अनादि चेदिदं विश्वं स्मरण्णात्तव सर्जनम् । सादि चेदादिमः सर्गो वक्त्व्यस्तव कल्पनात् ॥ २१६॥

विधातुं शक्नुयात्संविदभूतस्यापि कल्पनम् । कल्पितस्यैकदा भूयः सर्जनावसरे स्मृतिः ॥ २१७॥

चितेरस्मादृशां वीर्यं स्वप्ने चेद्विश्वकारणम् । चितेस्समष्टिभूतायाः प्रभावे संशयः कुतः ॥ २१८॥

मातस्समष्टिचिद्रूपे विभूतिर्भुवनं तव । इह व्यष्टि शरीरेषु भान्ती तदनुपश्यसि ॥ २१९॥

त्वं बह्म त्वं पराशक्तिस्त्वं सर्वा अपि देवताः । त्वं जीवास्त्वं जगत्सर्वं त्वदन्यन्नास्ति किञ्चन ॥ २२०॥

सती चिदम्ब नैव त्वं भावाभावविलक्षणा । शक्तिशक्तिमतोर्भेददर्शनादेष विभ्रमः ॥ २२१॥

तवाम्ब जगतधास्य मृत्तिकाघटयोरेव । सम्बन्धो वेदितव्यः स्यान्न रज्जौफणिनोरिव ॥ २२२॥

त्वं शक्तिरस्यविच्छिन्ना भावैरात्मविभूतिभिः । अन्तरास्तु महेन्द्रस्य शक्त्स्य प्रतिबिम्बवत् ॥ २२३॥

शक्तिर्गणपतेः काये प्रवहन्ती सनातनी । भारतस्य क्रियादस्य बाध्यमानस्य रक्षणम् ॥ २२४॥

इमानि तत्त्ववादीनि वासिष्ठस्य महामुनेः । पथ्यावक्त्रणि सेवन्तामनन्तामभवां चितिम् ॥ २२५॥

॥ द्वितीयो माणवकपादः ॥

शक्त्तमा शक्रवधू हासविभा मे हरतु । मानसमार्गावरकं जेतुमशक्यं तिमिरम् ॥ २२६॥

भारतभूपद्मदृशो दुर्दशया क्षीणतनोः । बाष्पमजस्रं विगलद्वासवभामा हरतु ॥ २२७॥

दण्डितरक्षोजनता पण्डितगीतावनिता । मण्डितमाहेन्द्रगृहा खण्डितपापा जयति ॥ २२८॥

सद्गुणसम्पत्कलितं सर्वशरीरे ललितम् । देवपतेः पुण्यफलं पुष्यतु मे बुद्धिबलम् ॥ २२९॥

हासविशेषैरलसैर्दिक्षु किरन्त्यच्छसुधाम् । इन्द्रदृगानन्दकरी चन्द्रमुखी मामवतु ॥ २३०॥

प्रेमतरङ्गप्रतिमैः शीतलदृष्टिप्रकरैः । शक्रमनोमोहकरी वक्रकचा मामवतु ॥ २३१॥

गाढरसैश्चारुपदैर्गूढतरार्थैर्वचनैः । कामकरी वृत्रजितो हेमतनुर्मामवतु ॥ २३२॥

मृत्युतनुः कालतनोर्विश्वपतेः पार्श्वचरी । प्रेतजगद्रक्षति या सा तरुणी मामवतु ॥ २३३॥

प्रेतजगत्केचिदधो लोकमपुण्यं ब्रुवते । शीतरुचेर्देवि परो नेतरदेतद् वदति ॥ २३४॥

भूरियमुर्वी वसुधा वारिजवैर्येषभुवः । स्वर्महसां राशिरसौ येषु नरप्रेतसुराः ॥ २३५॥

राजतशैलं शशिनः केचिदभिन्नं ब्रुवते । मृत्युयमावेव शिवावीश्वरि तेषां तु मते ॥ २३६॥

राजतशैलः पितृभूरोषधिराडेष यदि । काञ्चनशैलः सुरभूर्बन्धुरसौ वारिरुहाम् ॥ २३७॥

पावय भूमिं दधतः पावककायस्य विभोः । भामिनि भावानुगुणे सेवकमग्नायि तव ॥ २३८॥

यस्य यमो भूतपतिर्बुद्धिमतस्तस्य मते । आग्निरुपेन्द्रो मघवा काञ्चनगर्भो भगवान् ॥ २३९॥

यस्य महाकालवधूर्मृत्युरपि द्वे न विदः । त्वं शचि मेधाऽस्यमते पावकशक्तिः कमला ॥ २४०॥

नामसु भेदोऽस्तु धियामीश्वरि निष्कृष्टमिदम् । सूर्यधरेन्दुष्वजरे त्वं त्रितनुर्भासि परे ॥ २४१॥

सात्त्विकशक्तिः सवितर्यादिमरामे भवसि । राजसशक्तिर्भुवि नस्तामसशक्तिः शशिनि ॥ २४२॥

सर्वगुणा सर्वविभा सर्वबला सर्वरसा । सर्वमिदं व्याप्य जगत्कापि विभान्ती परमा ॥ २४३॥

व्योमतनुर्निर्वपुषो देवि सतस्त्वं दयिता । अस्यभियुक्तैर्विबुधैरम्ब महेश्वर्युदिता ॥ २४४॥

सा खलु माया परमा कारणमीशं वदताम् । सा प्रकृतिः साङ्ख्यविदां सा यमिनां कुण्डलिनी ॥ २४५॥

सा ललिता पञ्चदशीमुत्तमविद्यां जपताम् । सा खलु चण्डी जननी साधुनवार्णं भजताम् ॥ २४६॥

सा मम शच्याः परमं कारणरूपं भवति । कार्यतनुर्दिवि शक्रं सम्मदयन्ती लसति ॥ २४७॥

व्योमतनोः सर्वजगच्चालनसूत्रं तु वशे । निर्वहणे तस्य पुनर्दिव्यतनुस्त्रीत्रितयम् ॥ २४८॥

पातुमिमं स्वं विषयं हन्त चिरान्निर्विजयम् । किङ्क्रमीशे विभयं मां कुरु पर्यार्शियम् ॥ २४९॥

चारुपदक्रीडनकैर्मातरिमैर्माणवकैः । चेतसि ते देवनुते प्रीतिरमोघा भवतु ॥ २५०॥

॥ तृतीयश्चित्रपदापादः ॥

अप्यलसो हरिदन्तध्वान्तततेरपि हर्ता । अस्तु ममेन्द्रपुरन्ध्री हासलवः शुभकर्ता ॥ २५१॥

पाहि परैर्हृतसारां नेत्रगलज्जलधाराम् । भारतभूमिमनाथां देवि विधाय सनाथाम् ॥ २५२॥

चालयता सुरराजं पालयता भुवनानि । शीलयता नतरक्षां कालयता वृजिनानि ॥ २५३॥

लालयता मुनिसङ्घं कीलयता दिवि भद्रम् । पावय मां सकृदीशे भासुरदृक्प्रसरेण ॥ २५४॥

सर्वरुचामापि शालां त्वां शचि मङ्गललीलाम् । कालकचामुत कालीं पद्ममुखीमुत पद्माम् ॥ २५५॥

यः स्मरति प्रतिकल्यं भक्तिभरेण परेण । तस्य सुरेश्वरि साधोरस्मि पदाब्जभुजिष्यः ॥ २५६॥

यस्तव नामपवित्रं कीर्तयते सुकृती ना । वासवसुन्दरि दासस्तच्चरणस्य सदाऽहम् ॥ २५७॥

पावकसागरकोणं यस्तव पावनयन्त्रम् । पूजयति प्रतिघस्रं देवि भजामि तदङ्घ्रिम् ॥ २५८॥

यस्तव मन्त्रमुदारप्राभवमागमसारम् । पावनि कूर्चमुपास्ते तस्य नमध्रणाय ॥ २५९॥

शान्तधियेतरचिन्तासन्ततिमम्ब विधूय । चिन्तयतां तव पादावस्मि सतामनुयायी ॥ २६०॥

शोधयतां निजतत्त्वं साधयतां महिमानम् । भावयतां चरणं ते देवि पदानुचरोऽहम् ॥ २६१॥

योऽनुभवेन्निजदेहे त्वामजरे प्रवहन्तीम् । सन्ततचिन्तनयोगात्तस्य नमामि पदाब्जम् ॥ २६२॥

बोधयते भवतीं यः प्राणगतागतदर्शी । कुण्डलिनीं कुलकुण्डात्तं त्रिदिवेश्वरि वन्दे ॥ २६३॥

लोचनमण्डलसौधां लोकनमूलविचारी । विन्दति यः परमे त्वां वन्दनमस्य करोमि ॥ २६४॥

मानिनि जम्भजितस्त्वां मानसमूलवितर्की । वेदहृदम्बुरुहे यः पादममुष्य नमामि ॥ २६५॥

अन्तरनादविमर्शी पश्यति यः सुकृती ते । वैभवमम्ब विशुद्धे तेन वयं परवन्तः ॥ २६६॥

इन्द्रपदस्थितचित्तश्शीर्षसुधारसमत्तः । यो भजते जननि त्वां तच्चरणं प्रणमामि ॥ २६७॥

रासनवारिणि लग्नः सम्मदवीचिषु मग्नः । ध्यायति यः परमे त्वां तस्य पदं मम वन्द्यम् ॥ २६८॥

त्वां सदहञङ्कृतिरूपां योगिनुते हतपापाम् । धारयते हृदये यस्तस्य सदाऽस्मि विधेयः ॥ २६९॥

धूतसमस्तविकल्पो यस्तव पावनलीलाम् । शोधयति स्वगुहायां तस्य भवाम्यनुजीवी ॥ २७०॥

यो भजते निजदृटिं रूपपरिग्रहणेषु । कामपि देवि कलां ते तस्य पदे निपतेयम् ॥ २७१॥

कर्मणि कर्मणि चेष्टामम्ब तवैव विभूतिम् । यः शितबुद्धिरुपास्ते तत्पदमेष उपास्ते ॥ २७२॥

वस्तुनि वस्तुनि सत्तां यो भवतीं समुपास्ते । मातरमुष्य वहेयं पादयुगं शिरसाऽहम् ॥ २७३॥

पातुमिमं निजदेशं सर्वदिशासु सपाशम् । अम्ब विधाय समर्थं मां कुरु देवि कृतार्थम् ॥ २७४॥

चित्रपदाभिरिमाभिश्चित्रविचित्रचरित्रा । सम्मदमेतु मघोनः प्राणसखी मृगनेत्र ॥ २७५॥

॥ चतुर्थो नाराचिकापादः ॥

अन्तर्विधुन्वता तमः प्राणस्य तन्वता बलम् । मन्दस्मितेन देवताराज्ञी करोतु मे शिवम् ॥ २७६॥

उत्थाप्य पुण्यसञ्चयं सम्मद्र्य पापसंहतिम् । सा भारतस्य सम्पदे भूयाद्बलारिभामिनी ॥ २७७॥

लीलासखी बिडौजसस्स्वर्वाटिकासु खेलने । पीयुषभानुजिन्मुखी देवी शची विराजते ॥ २७८॥

पक्षः परो मरुत्वतो रक्षः प्रवीरमर्दने । भामालि भासुरानना देवी शची विराजते ॥ २७९॥

भीतिं निशाटसंहतेः प्रीतिं सुपर्वणां ततेः । ज्याटङ्कृतैर्वितन्वती देवी शची विराजते ॥ २८०॥

देवेन्द्रशक्तिधारिणी शत्रुप्रसक्तिवारिणी । मौनीन्द्रमुक्तिकारिणी देवी शची गतिर्मम ॥ २८१॥

सन्नस्वदेशदर्शनाद्भिन्नस्वजातिवीक्षणात् । खिन्नस्य संश्रितावनी देवी शची गतिर्मम ॥ २८२॥

सङ्घे सहस्रधाकृते देशे निकृष्टतां गते । शोकाकुलस्य लोकभृद्देवी शची गतिर्मम ॥ २८३॥

सा संविदोऽधिदेवता तस्यास्स्वरः परो वशे । सर्वं विधीयते तया तस्मात्परा मता शची ॥ २८४॥

सा याति सूक्ष्ममप्यलं सा भाति सर्ववस्तुषु । सा माति खं च निस्तुलं तस्मात्परा मता शची ॥ २८५॥

सा सर्वलोकनायिका सा सर्वगोलपालिका । सा सर्वदेहचालिका तस्मात्परा मता शची ॥ २८६॥

यस्याः कृतिर्जगत्त्रयं या तद्बिभर्ति लीलया । यस्यां प्रयाति तल्लयं सा विश्वनायिका शची ॥ २८७॥

धर्मे परिक्षयं गते याऽविश्य निर्मलं जनम् । तद्रक्षणाय जायते सा विश्वनायिका शची ॥ २८८॥

वेधा ऋतस्य योदिता मन्त्रेण सत्यवादिना । बाधानिवारिणी सतां सा विश्वनायिका शची ॥ २८९॥

यज्ञो यया विनीयते युद्धं तथा पृथग्विधभ् । तां देवराजमोहिनीं नारीं नुमः पुरातनीम् ॥ २९०॥

यस्यास्सुतो वृषाकपिर्देवोऽसतां प्रशासिता । तां सर्वदा सुवासिनीं नारीं नुमः पुरातनीम् ॥ २९१॥

यस्यास्समा नितम्बिनी काचिन्न विष्टपत्रये । तां नित्यचारु यौवनां नारीं नुमः पुरातनीम् ॥ २९२॥

यच्चारुता न दृश्यते मन्दारपल्लवेष्वपि । तत्सुन्दराच्चसुन्दरं शच्याः पदाम्बुजं श्रये ॥ २९३॥

यस्य प्रभा न विद्यते माणिक्यतल्ल्जेष्वपि । तद्भासुराच्च भासुरं शच्याः पदाम्बुजं श्रये ॥ २९४॥

न स्यादघैस्तिरस्कृतो यच्चिन्तको नरः कृती । तत्पावनाच्च पावनं शच्याः पदाम्बुजं श्रये ॥ २९५॥

राजन्नखेन्दुभानुभिस्सर्वं तमो विधुन्वते । वृन्दारकेन्द्रसुन्दरीपादाम्बुजाय मङ्गलम् ॥ २९६॥

गीर्वाणमौलिरीभा सङ्क्षालिताय दीप्यते । स्वर्गाधिनाथभामिनिपादाम्बुजाय मङ्गलम् ॥ २९७॥

बालार्कबिम्बरोचिषे योगीन्द्र हृद्गुहाजुषे । पाकारिजीवितेश्वरीपादाम्बुजाय मङ्गलम् ॥ २९८॥

आत्मीयदेशरक्षणे शक्तं करोतु सर्वथा । पापद्विषां प्रियङ्करी वासिष्ठमिन्द्रसुन्दरी ॥ २९९॥

वासिष्ठवाक्प्रदीप्तिर्भिनाराचिकाभिरीश्वरी । गीर्वाणचक्रवर्तिनस्सम्मोदमेतु सुन्दरी ॥ ३००॥

॥ तृतीयमानुष्टुभं शतकं समाप्तम् ॥

॥ अथ चतुर्थं बार्हतं शतकम् ॥

॥ प्रथमो हलमुखीपादः ॥

क्षीरवीचिपृषतसितं प्रेमधारिदरहसितम् । नाकराजनलिनदृशः शोकहारि मम भवतु ॥ ३०१॥

अध्वनो गलितचरणामध्वरक्षितिमविभवाम् । आदधातु पथि विमले वैभवे च हरितरुणी ॥ ३०२॥

ब्रह्मणश्वितिरथनभः कायभागवगतिमती । या तदा पृथगिव बभौ धर्मितां स्वयमपि गता ॥ ३०३॥

मोदबोधविभवकृतप्राकृतेतरवरतनु । सर्वसद्गुणगणयुतं या ससर्ज सुरमिथुनम् ॥ ३०४॥

पुंसि दीप्तवपुषि तयोर्ब्रह्म सोऽहमिति लसति । योषिते किल धियमदात्तस्य शक्तिरहमिति या ॥ ३०५॥

याभिमानबलवशतस्तामुदारतमविभवाम् । मन्यते स्म वरवनितां स्वाधिदैविकतनुरिति ॥ ३०६॥

आदिपुंसि गगनतनुर्या तनोति तनुजमतिम् । आदधाति युवतितनुः प्राणनायक इति रतिम् ॥ ३०७॥

तां परां भुवनजननीं सर्वपापततिशमनीम् । तन्त्रजालविनुतबलां स्तौमि सर्वमतिममलाम् ॥ ३०८॥

सा मतिर्विदितविषया सा रुचिर्विततविषया । सा रतिर्विनुतविषया सा स्थितिर्विधुतविषया ॥ ३०९॥

यत्र यत्र मम धिषणा ग्राह्यवस्तुनि गतिमती । तत्र तत्र विलसतु सा सर्वगा सकलचरिता ॥ ३१०॥

दुर्बलस्य बहुलबलैरर्दितस्य जगति खलैः । आदिदेवि तव चरणं पावनं भवति शरणम् ॥ ३११॥

पौरुषे भवति विफले त्वामयं जननि भजते । किं नुते यदि विमुखता पौरुषं कथय भजताम् ॥ ३१२॥

कर्तुरप्रतिहतगिरः पौरुषाच्छतगुणमिदम् । ध्यातुरस्खलितमनसः कार्यसिद्धिषु तव पदम् ॥ ३१३॥

पौरुषं विदितमफलं काङ्क्षिते मम सुरनुते । शक्तमीदृशि तु समये श्रद्दधामि तव चरणम् ॥ ३१४॥

पौरुषं यदि कविमतं देवि तेऽपि पदभजनम् । दैववादपटुवचसो मूकतैव मम शरणम् ॥ ३१५॥

पूर्वजन्मसुकृतफलं दैवमम्ब निगदति यः । भक्तिपौरुषविरहिणो भावितस्य रिपुदयितम् ॥ ३१६॥

उद्यतस्य तव चरणं संश्रितस्य च सुरनुते । पूर्वजन्मसुकृतबलश्रद्धयाऽलमहृदयया ॥ ३१७॥

अस्तु पूर्वभवसुकृतं मास्तु वा जननि जगताम् । साम्प्रतं तव पदयुगं संश्रितोस्म्यव विसृज वा ॥ ३१८॥

नास्ति सम्प्रति किमपि किं भूतिमाप्स्यसि किमु ततः । अन्यजन्मनि वितरणे का प्रसक्तिरमरनुते ॥ ३१९॥

नान्यजन्मनि बहुशिवं नापि नाकभुवनसुखम् । कामये फलमभिमतं देहि सम्प्रति शचि न वा ॥ ३२०॥

मेदिनी भुवनतलतो निस्तुलादुत गगनतः । भास्करादुत रुचिनिधेः काम्यमीश्वरि वितर मे ॥ ३२१॥

विष्टपे क्वचन वरदे दातुमीश्वरि कृतमतिम् । वारयेज्जननि न परस्त्वां जनस्तव पतिमिव ॥ ३२२॥

देहि वा भगवति न वा पाहि वा शशिमुखि न वा । पावनं तव पदयुगं न त्यजानि हरिदयिते ॥ ३२३॥

रक्षितुं भरतविषयं शक्तमिन्द्रहृदयसखी । चन्द्रबिम्बरुचिरमुखी सा क्रियाद्भुवि गणपतिम् ॥ ३२४॥

सम्प्रहृष्यतु हलमुखीर्भास्वतीर्गणपतिमुनेः । सा निशम्य सुरनृपतेर्मोहिनी सदयहृदया ॥ ३२५॥

॥ द्वितीयो भुजगशिशुभृतापादः ॥

मरुदधिपमनोनाथा मधुकरचिकुरास्माकम् । वृजिनविधुतिमाधत्तां विशदहसितलेशेन ॥ ३२६॥

अखिलनिगमसिद्धान्तो बहुमुनिवरबुद्धान्तः । सुरपरिबृढशुद्धान्तो भरतवसुमतीमव्यात् ॥ ३२७॥

भगवति भवतीचेतो रतिकृदभवदिन्द्रस्य । स तव जननि सन्तानद्रुमवनमतिरम्यं वाम् ॥ ३२८॥

पतिरखिलयुवश्रेष्ठः किमपि युवतिरत्नं त्वम् । वनविहृतिषु वां चेतो हरणमभवदन्योन्यम् ॥ ३२९॥

मधुरललितगम्भीरैस्तव हृदयमुपन्यासैः । वनविहरणलीलायामहरदयि दिवो राजा ॥ ३३०॥

कलवचनविलासेन प्रगुणमुखविकासेन । भुवनमपिमनोऽहार्षीर्जननि वनविहारे त्वम् ॥ ३३१॥

कनककमलकान्तास्या धवलकिरणवक्त्रेण । असितजलजपत्राक्षी सितनलिनदलाक्षेण ॥ ३३२॥

अलिचयनिजधम्मिल्ला नवजलधरकेशेन । मृदुलतमभुजावल्ली दृढतमभुजदण्डेन ॥ ३३३॥

अमृतनिलयबिम्बोष्ठी रुचिरधवलदन्तेन । अतिमुकुरलसद्गण्डा विकचजलजहस्तेन ॥ ३३४॥

युवतिरतितरां रम्या सुललितवपुषा यूना । भगवति शचि युक्ता त्वं त्रिभुवनविभुनेन्द्रेण ॥ ३३५॥

विकचकुसुममन्दारद्रष्ठ्हमवनवरवाटीषु । विहरणमयि कुर्वाणा मनसिजमनुगृह्णासि ॥ ३३६॥

तव शचि चिकुरे राजत्कुसुमममरवृक्षस्य । नव सलिलभृतो मध्ये स्फुरदिव नवनक्षत्रम् ॥ ३३७॥

अभजततरुरौदार्यं विभवमपि महान्तं सः । विकचकुसुमसम्पत्त्या भगवति भजते यस्त्वाम् ॥ ३३८॥

अमरनृपतिना साकं कुसुमितवनवाटीषु । भगवति तव विश्रान्तेः स जयति समयः कोऽपि ॥ ३३९॥

अमरतरुवरच्छायास्वयि मुहुरुपविश्य त्वम् । शचि कृतिजनरक्षायै मनसि वितनुषु चर्चाम् ॥ ३४०॥

किमु वसु वितराण्यस्मै सुमतिमुत ददान्यस्मै । क्षमतममथवाऽमुष्मिन् बलमुरुघटयानीति ॥ ३४१॥

हरितरुणि कदा वामे विनमदवनचर्चासु । स्मरणसमय आयास्यत्यमलहृदयरङ्गे ते ॥ ३४२॥

शचि भगवति साक्षात्ते चरणकमलदासोऽहम् । इह तु वसुमतीलोके स्मर मम विषयं पूर्वम् ॥ ३४३॥

न यदि तव मनो दातुं स्वयमयि लघवे मह्यम् । उपवनतरुकर्णे वा वद मदभिमतं कर्तुम् ॥ ३४४॥

निजविषयमतिश्रेष्ठं विपदि निपतितं त्रातुम् । स्वकुलमपि सदध्वानं गमयितुमपथे श्रान्तम् ॥ ३४५॥

अखिलभुवनसम्राजः प्रियतरुणि भवत्यैव । मतिबलपरिपूर्णोएऽयं गणपतिमुनिराधेयः ॥ ३४६॥

न किमु भवति शं देशे गतवति कलुषे काले । तव भजनमघं सद्यो हरिहयललने जेतुम् ॥ ३४७॥

त्रिजगति सकलं यस्य प्रभवति पृथुले हस्ते । स बहुलमहिमा कालो मम जननि विभूतिस्ते ॥ ३४८॥

अनवरतगलद्बाष्पां भरतवसुमतीं त्रातुम् । वितरतु दयिताजिष्णोर्गणपतिमुनये शक्तिम् ॥ ३४९॥

भुजगशिशुभृता एताः कविगणपतिना गीताः । विदधतु मुदितां देवीं विबुधपतिमनोनाथाम् ॥ ३५०॥

॥ तृतीयो मणिमध्यापादः ॥

मङ्गलधायी पुण्यवतां मन्मथधायी देवपतेः । विष्टपराज्ञीहासलवो विक्रमधायी मे भवतु ॥ ३५१॥

दृष्टिविशेषैश्शीततरैर्भूर्यनुकम्पैः पुण्यतमैः । भारतभूमेस्तापततिं वासवकान्ता सा हरतु ॥ ३५२॥

पावनदृष्टिर्योगिहिता भासुरदृष्टिर्देवहिता । शीतलदृष्टिर्भक्थिता मोहनदृष्टिश्शक्रहिता ॥ ३५३॥

उज्ज्वलवाणी विक्रमदा वत्सलवाणी सान्त्वनदा । मञ्जुलवाणी सम्मददा पन्नगवेणी सा जयति ॥ ३५४॥

शारदराकाचन्द्रमुखी तोयदमालाकारकचा । मेचकपाथोजातदलश्रीहरचक्षुर्वासिकृपा ॥ ३५५॥

चम्पकनासागण्डविभामण्डलखेलत्कुण्डलभा । उक्तिषु वीणाबिम्बफलश्रीहरदन्तप्रावरणा ॥ ३५६॥

निर्मलहासक्षालितदिग्भित्तिसमूहा मोहहरी । काञ्चनमालाशोभिगला सन्ततलीला बुद्धिकला ॥ ३५७॥

विष्टपधारि क्षीरधरस्वर्णघटश्रीहारिकुचा । कापि बिडौजो राज्यरमा चेतसि माता भातु मम ॥ ३५८॥

दिव्यसुधोर्मिर्भक्तिमतां पावककीला पापकृताम् । व्योम्नि चरन्ती शक्रसखी शक्तिरमोघा मामवतु ॥ ३५९॥

सम्मदयन्ती सर्वतनुं संशमयन्ती पापततिम् । सम्प्रथयन्ती सर्वमतीस्सङ्घटयन्ती प्राणबलम् ॥ ३६०॥

निर्जितशोकाधूततमास्संस्कृतचित्ता शुद्धतमा । वासवशक्तेर्व्योमजुषः काचन वीचिर्मां विशतु ॥ ३६१॥

उद्गतकीलं मूलमिदं भिन्नकपालं शीर्षमिदम् । उज्झित मोहं चित्तमिदं वासवशक्तिर्मां विशतु ॥ ३६२॥

दृश्यविरक्तं चक्षुरिदं भोगविरक्तं कायमिदम् । ध्येयविरक्ता बुद्धिरियं वासवशक्तिर्मां विशतु ॥ ३६३॥

चक्षुरदृश्यज्वालभृता व्यापकखेन प्रोल्लसता । विस्मृतकायं सन्दधती वासवशक्तिर्मां विशतु ॥ ३६४॥

कायमजस्रं वज्रदृढं बुद्धिमशेषे व्याप्तिमतीम् । दिव्यतरङ्गैरादधती वासवशक्तिर्मां विशतु ॥ ३६५॥

मूर्ध्नि पतन्ती व्योमतलात्सन्ततमन्तः सर्वतनौ । सम्प्रवहन्ती दिव्यझरैर्वासवशक्तिर्मां विशतु ॥ ३६६॥

भानुविभायां भासकता दिव्यसुधायां मोदकता । काऽपि सुरायां मादकता वासवशक्त्यां तत्त्रितयम् ॥ ३६७॥

भासयतान्मे सम्यगृतं मोदमुदारं पुष्यतु मे । साधुमदं मे वर्धयतान्निर्जरभर्तुः शक्तिरजा ॥ ३६८॥

कश्चन शक्तिं योगबलादात्मशरीरे वर्धयति । एषि विवृद्धिं भक्तिमतः कस्यचिदेशे त्वं वपुषि ॥ ३६९॥

साधयतां वा योगविदां कीर्तयतां वा भक्तिमताम् । वत्सलभावादिन्द्रवधूर्गर्भभुवां वा याति वशम् ॥ ३७०॥

यस्य समाधिः कोऽपि भवेदात्ममनीषा तस्य बलम् । यस्तव पादाम्भोजरतस्तस्य खलु त्वं देवि बलम् ॥ ३७१॥

द्वादशवर्षी योगबलाद्या खलु शक्तिर्युक्तमतेः । तां शचि दातुं भक्तिमते कापि घटी ते मातरलम् ॥ ३७२॥

योगबलाद्वा ध्यानकृतो भक्तिबलाद्वा कीर्तयतः । यातु विवृद्धिं विश्वहिता वासवशक्तिर्मे वपुषि ॥ ३७३॥

दुःखितमेतच्छ्रीरहितं भारतखण्डं सर्वहितम् । त्रातुमधीशा स्वर्जगतः सुक्षमबुद्धिं मां कुरुताम् ॥ ३७४॥

सन्तु कवीनां भर्तुरिमे सुन्दरबन्धाशुद्धतमाः । सन्मणिमध्याः स्वर्जगतो राजमहिष्याः कर्णसुखाः ॥ ३७५॥

॥ चतुर्थो मात्रसमकपादः ॥

शुक्ल्ज्योतिः प्रकरैर्व्याप्तः सूक्ष्मोऽप्यन्तान् हरितां हासः । जिष्णोः पत्न्यास्तिमिरारातिर्निश्शेषं मे हरतान्मोहम् ॥ ३७६॥

श‍ृण्वत्कर्णा सदयालोका लोकेन्द्रस्य प्रियनारी सा । नित्याक्रोशैर्विरुदद्वाणीं पायादेतां भरतक्षोणीम् ॥ ३७७॥

देवेषु स्वः परिदीप्यन्ती भूतेष्विन्दौ परिखेलन्ती । शक्तिर्जिष्णोर्द्वपदां सङ्घे हन्तैतस्यां भुवि निद्राति ॥ ३७८॥

निद्राणाया अपि ते ज्योतिर्गन्धादेते धरणीलोके । मर्त्याः किञ्चत्प्रभवन्तीशे त्वं बुद्धा चेत्किमु वक्त्व्यम् ॥ ३७९॥

मेघच्छन्नोऽप्यरुणस्तेजो दद्यादेव प्रमदे जिष्णोः । अत्रस्थानां भवतीग्रन्थिच्छन्नाप्येवं कुरुते प्रज्ञाम् ॥ ३८०॥

ध्यायामो यत्कथयामो यत्पश्यामो यच्छृणुमो यच्च । जीवामो वा तदिदं सर्वं निद्राणाया अपि ते भासा ॥ ३८१॥

नाडीबन्धादभिमानाच्च च्छन्ना मातर्भवती देहे । एकापायादितरो नश्येत्तस्माद्द्वेधा तपसः पन्थाः ॥ ३८२॥

चित्तं यस्य स्वजनिस्थाने प्रज्ञा बाह्या न भवेद्यस्य । आधत्से त्वं भुवनाधीशे बुद्धा क्रीडां हृदये तस्य ॥ ३८३॥

वाणी यस्य स्वजनिस्थाने दूरे कृत्वा मनसा सङ्गम् । मातस्तत्र प्रतिबुद्धा त्वं श्लोकैर्लोकं कुरुषे बुद्धम् ॥ ३८४॥

हित्वा दृश्यान्यतिसूक्ष्मायां चक्षुर्यस्य स्वमहो वृत्तौ । विश्वाऽलिप्ता जगतां मातर्जाग्रत्यस्मिन्नचला भासि ॥ ३८५॥

श‍ृण्वन् कर्णो दयिते जिष्णोरन्तः शब्दं ध्रियते यस्य । बुद्धा भूत्वा वियता साधोरेकीभावं कुरुषे तस्य ॥ ३८६॥

यातायातं सततं पश्येद्यः प्राणस्य प्रयतो मर्त्यः । विश्वस्येष्टां तनुषे क्रीडां तस्मिन् बुद्धा तरुणीन्द्रस्य ॥ ३८७॥

स्वान्तं यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि निद्रासि । आत्मा यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि जागर्षि ॥ ३८८॥

यस्याऽहन्ता भवति स्वान्ते तस्य स्वान्तं प्रभवेत्कर्तुम् । यस्याऽहन्ता भवति स्वात्मन्यात्मा तस्य प्रभवेत्कर्तुम् ॥ ३८९॥

स्वान्तं यस्य प्रभवेत्कर्तुं तत्कर्माल्पं भवति व्यष्टेः । आत्मा यस्य प्रभवेत्कर्तुं तच्छ्लाध्यं ते बलजित्कान्ते ॥ ३९०॥

एतत्स्वान्तं हृदयाज्जातं शीर्षे वासं पृथगाधाय । हार्दाहन्तां स्वयमाक्रम्य भ्रान्तानस्मान् कुरुते मातः ॥ ३९१॥

अस्माकं भोः कुरुते बाधामस्मज्योतिर्जननि प्राप्य । स्वान्ते नैतत्कृतमन्याय्यं कान्ते जिष्णोः श‍ृणु राज्ञि त्वम् ॥ ३९२॥

स्वान्ते तेजो हृदयादायाच्चन्द्रे तेजो दिनभर्तुर्वा । आश्रान्तं यो मनुते धीरस्तस्य स्वान्तं हृदि लीनं स्यात् ॥ ३९३॥

मूलान्वेषिस्फुरदावृत्तं नीचैरायात्कबलीकृत्य । जानन्त्येका हृदयस्थाने युञ्जानानां ज्वलसीशाने ॥ ३९४॥

शीर्षे चन्द्रो हृदये भानुर्नेत्रो विद्युत्कुलकुण्डेऽग्निः । सम्पद्यन्ते महसाऽशैस्ते जिष्णोः कान्ते सुतरां शस्ते ॥ ३९५॥

मन्वानां त्वां शिरसि स्थाने पश्यन्तीं वा नयनस्थाने । चेतन्तीं वा हृदयस्थाने राजन्तीं वा ज्वलनस्थाने ॥ ३९६॥

यो ना ध्यायेज्जगतां मातः कश्चिच्छ्रेयानवनौ नाऽतः । पूतं वन्द्यं चरणं तस्य श्रेष्ठं वर्ण्यं चरितं तस्य ॥ ३९७॥

दोग्ध्रीं मायां रसनां वा यो मन्त्रं मातर्जपति प्राज्ञः । सोऽयं पात्रं करुणायास्ते सर्वं काम्यं लभते हस्ते ॥ ३९८॥

छिन्नां भिन्नां सुतरां सन्नामन्नाभावादभितः खिन्नाम् । एतां पातुं भरतक्षोणीं जाये जिष्णोः कुरु मां शक्तम् ॥ ३९९॥

क्लृप्तैः सम्यग्बृहतीछन्दस्येतैर्मात्रसमकैर्वृत्तैः । कर्णाध्वानं प्रविशद्भिस्सा पौलोम्यम्बापरितृप्तास्तु ॥ ४००॥

॥ चतुर्थं बार्हतं शतकं समाप्तम् ॥

॥ अथ पञ्चमं पाङ्क्तं शतकम् ॥

॥ प्रथमो मयूरसारिणीपादः ॥

प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे । इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥ ४०१॥

वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती । जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥ ४०२॥

अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् । आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥ ४०३॥

एतमेव देवि लोकबन्धुं सूरयो वृषाकपिं भणन्ति । वर्षहेतुदीधितिर्वृषायं कं पिबन् करैः कपिर्निरुक्त्ः ॥ ४०४॥

केचिदिन्द्रनारि चन्द्ररेखाशेखरं वृषाकपिं गदन्ति । पण्डिताः परे तु शेषशय्याशायिनं वृषाकपिं तमाहुः ॥ ४०५॥

ब्रह्मणस्पतिं तु वैद्युताग्नेरंशजं मरुद्गणेषु मुख्यम् । विश्वराज्ञि विघ्नराजमेके विश्रुतं वृषाकपिं वदन्ति ॥ ४०६॥

भास्करश्च शङ्क्रश्च मातर्माधवश्च मन्त्रनायकश्च । आत्मजेषु ते न सन्ति नान्तर्व्यापकान्तरिक्षविग्रहायाः ॥ ४०७॥

वासवोऽपि देवि देवतात्मा वल्लभस्तव च्छलाङ्गनायाः । आत्मजात एव कीर्तनीयो देवतापथेन देहवत्याः ॥ ४०८॥

साशवस्युदीरितासि धीरैर्देहिनी विहायसेन्द्रसूस्त्वम् । लिङ्गभेदतोऽनुरूपतस्तत्कीर्तनं शवो हि शक्तिवाचि ॥ ४०९॥

नादितिर्विभिद्यते शवस्यास्सर्वदेव मातरं विदुर्याम् । सा मरुत्प्रसूरभाणि पृश्निः सापि भिद्यते ततो न देव्याः ॥ ४१०॥

शक्तिरेव सा न्यगादि पृश्निश्शक्तिरेव साऽदितिर्न्यभाणि । शक्तिरेव साऽभ्यधायि भद्रा शक्तिरेव सा शवस्यवादि ॥ ४११॥

विज्जनः प्रकृष्टशक्तिभागं शब्दमेव पृश्निमाह धेनुम् । या परैर्बुधैरभाणि गौरी मानवेष्टभाषयैव नारी ॥ ४१२॥

व्यापकत्वकल्पितं विशालं देशमेव शक्तिभागमाहुः । बुद्धिशालिनोऽदितिं सवित्रीं या परैर्विचक्षणैः स्मृता द्यौः ॥ ४१३॥

नित्यमोदरूपशक्तिभागं पण्डिताः प्रकीर्तयन्ति भद्राम् । उक्तिभेदचातुरीप्रलुब्धाः सूरयः परे शिवां जुगुर्याम् ॥ ४१४॥

वीर्यरूपभाग एव गण्यः पण्डितैः शवस्यभाणि शक्तेः । ओजसो न सोऽतिरिच्य तेंशो भिद्यते ततो न वज्रमुग्रम् ॥ ४१५॥

वज्रमेव भाषया परेषामुच्यते प्रचण्डचण्डिकेति । यद्विभूतिलेशचुम्बितात्मा जीयते न केनचित्पृथिव्याम् ॥ ४१६॥

सर्वतो गतिश्शचीति शक्तिः कीर्त्यते बुधैरुदारकीर्तिः । सर्वभागवाचकं पदं तत् पावनं पुरातनं प्रियं नः ॥ ४१७॥

यश्शचीति नामकीर्तयेन्ना पुष्करेण ते शरीरवत्याः । दिव्यसुन्दरी तनोरुताहो तं पराभवेन्न देवि पापम् ॥ ४१८॥

अम्बरं वरं तवाम्ब कायं यस्सदा विलोकयन्नौपास्ते । लोकजालचक्रवर्तिजाये तं पराभवेन्न देवि पापम् ॥ ४१९॥

पूर्णिमासुधांशुबिम्बवक्त्रं फुर्विंआरिजातपत्रनेत्रम् । शुभ्रतानिधानमन्दहासं कालमेघकल्पकेशपाशम् ॥ ४२०॥

रत्न्दर्पणाभमञ्जुगण्डं चम्पकप्रसूनचारुनासम् । कुन्दकुड्मलाभकान्तदन्तं कल्पपर्विंआभदन्तचेलम् ॥ ४२१॥

सद्वराभयप्रदायिहस्तं सर्वदेववन्द्यपादकञ्जम् । दिव्यरत्नभूषणैरनर्घैर्भूषितं कनत्सुवर्णवर्णम् ॥ ४२२॥

दिव्यशुक्ल्वस्त्रयुग्मधारि स्वर्गसार्वभोमनेत्रहारि । यः स्मरेद्वराङ्गनावपुस्ते तं पराभवेन्न देवि पापम् ॥ ४२३॥

भारतक्षितेरिदं जनन्याश्शोकजन्यबाष्पवारि हर्तुम् । देहि शक्तिमाश्रिताय मह्यं पाहि धर्ममिन्द्रचित्तनाथे ॥ ४२४॥

सद्वसिष्ठसन्ततेरिमाभिस्सत्कवेर्मयूरसारिणीभिः । सम्मदं प्रयातु शक्रचेतस्सम्प्रमोहिनीसरोजनेत्र ॥ ४२५॥

॥ द्वितीयो मनोरमापादः ॥

हसितमाततायिपातकप्रमथनप्रसिद्धविक्रमम् । अमरभूमिपालयोषितो मम करोतु भूरिमङ्गलम् ॥ ४२६॥

करुणया प्रचोदिता क्रियाद्भरतभूमिमक्षयश्रियम् । चरणकञ्जराजदिन्दिरा सुरनरेश्वरस्य सुन्दरी ॥ ४२७॥

न भवनं न वा जगत्पृथङ्निवसनाय ते सुरार्चते । यदखिलानि विष्टपानि ते वपुषि सर्वमन्दिराणि च ॥ ४२८॥

मतिदविष्ठसीमभासुरं तव शरीरमेव पुष्करम् । परमपूरुषस्य वल्लभे भुवनमेकमुच्यते बुधैः ॥ ४२९॥

तरणयस्सुधांशवस्तथा सह भुवा ग्रहाः सहस्रशः । अयि जगन्ति विस्तृतानि ते वपुषि पुष्करे जगत्यजे ॥ ४३०॥

बहुभिरुष्णभानुभिक्र्ततात् बहुभिरिन्दुभिर्वशीकृतात् । वियति लोकजालधात्रि ते शतगुणं बलं प्रशिश्यते ॥ ४३१॥

न विभुरेककस्य भास्वतो विभवमेव ना प्रभाषितुम् । किमुत ते दधासि योदरे द्युतिमतां शतानि तादृशाम् ॥ ४३२॥

इह विहायसा शरीरिणीमतिसमीपवासिनीमपि । न खलु कोऽपि लोकितुं प्रभुर्भगवतीं परामयुक्तधीः ॥ ४३३॥

तदिदमुच्यते जनो जगद्वपुरमेयमादिदेवि ते । जनयते यतोऽखिलं दृशोर्विषयभूतमेतदाततम् ॥ ४३४॥

बहुलतारकागणैर्युतं किमपि खं तवेह वर्ष्मणि । शचि विभज्य भाषयैकया सुकवयो महोजगद्विदुः ॥ ४३५॥

इदमिनेन्दुभूविलक्षणैर्दिनकरैस्सुधाकरैर्ग्रहैः । बहुजगद्भिरन्वितं महोजगदशेषधात्रि नैककम् ॥ ४३६॥

अजरमव्ययं सनातनं मुनिजनैकवेद्यवैभवम् । न भवतीं विना तपोजगत्पृथगशेषनाथनायिके ॥ ४३७॥

सकलदृश्यमूलकारणं तव च संश्रयो निराश्रयः । जननि सत्यलोक संज्ञया परमपूरुषोऽभिधीयते ॥ ४३८॥

अयि पुरातनर्षिभाषया गगनमेतदाप ईरिताः । अथ यदासुवीर्यमुज्झितं भगवतस्त्वमेव तत्परे ॥ ४३९॥

शचि विराड्भवत्यभाषत श्रुतिरपीदमेव नाम ते । विततविश्वविग्रहात्मनि प्रथितमेतदाह्मयं परम् ॥ ४४०॥

उपनिषद्गिरा विराड्वधूः पुरुष एष भाषयान्यया । उभयथापि साधु तत्पदं भवति ते न संशयास्पदम् ॥ ४४१॥

न वनिता न वा पुमान् भवेज्जगति योऽन्तरश्शरीरिणाम् । तनुषु लिङ्गभेददर्शनात् तनुमतश्च लिङ्गमुच्यते ॥ ४४२॥

अखिलनाथवीर्यधारणान्न्गनभूमिरङ्गनामता । सकललोकबीजभृत्त्वतो गगनदेश एष पूरुषः ॥ ४४३॥

स्फुटविभक्तगात्रलक्ष्मणां नियतवादिनामदर्शनात् । न पुरुषो वियद्यथा वयं न वनिता वियद्यथैव नः ॥ ४४४॥

अभिविमानतोऽथ वा शची विबुधराजयोर्विलक्षणात् । वरविलसिनी वियत्तनुस्सदविकारमुत्तमः पुमान् ॥ ४४५॥

हृदयमल्पमप्यदो जनन्यनवमं विशालपुष्करात् । विमलदेहदुर्गमध्यगं सकलराज्ञि सौधमस्तु ते ॥ ४४६॥

विकसितं निजांशुवीचिभिक्र्तदयमालयं विशाम्ब मे । विकचमुष्णभानुभानुभिर्दशशतच्छदं यथा रमा ॥ ४४७॥

हृदयसाधुसौधशायिनीं नयनरम्यहर्म्यचारिणीम् । भुवनराजचित्तमोहिनीं नमत तां परां विलासिनीम् ॥ ४४८॥

तव परे मरीचिवीचयस्तनुगुहां प्रविश्य विश्रुते । भरतभूमिरक्षणोद्यतं गणपतिं क्रियासुरुज्ज्वलम् ॥ ४४९॥

गणपतेर्मनोरमा इमास्सुगुणवेदिनां मनोरमाः । अवहिता श‍ृणोतु सादरं सुरमहीपतेर्मनोरमाः ॥ ४५०॥

॥ तृतीयो मणिरागपादः ॥

ज्योतिषां नृपतिः सकलानां शान्तिमेव सदाभिदधानः । निर्मलो हरतात्सुरराज्ञीमन्दहासलवो मम पापम् ॥ ४५१॥

दुष्टलोकदविष्ठपदाब्जा शिष्टशोकनिवारणदक्षा । नाकलोकमहीपतिरामा भारतस्य धुनोत्वसुखानि ॥ ४५२॥

देवमौलिमणीकिरणेभ्यो विक्रमं स्वयमेव ददाना । देवराजवधूपदपद्मश्रीस्तनोतु सदा मम भद्रम् ॥ ४५३॥

देवि ते वदनं बहुकान्तं साक्षि तत्र पुरन्दरचेतः । अम्ब ते चरणावतिकान्तावत्र साक्षि मनः स्मरतां नः ॥ ४५४॥

भासुरं सुरसंहतिवन्द्यं सुन्दरं हरिलोचनहारि । पावनं नतपापविदारि स्वर्गराज्ञि पदं तव सेवे ॥ ४५५॥

जङ्घिके जयतस्तव मातः स४ एव रुचां यदधीनः । वासवस्य दृशां च सहस्रं यद्विलोकनलोभविनम्रम् ॥ ४५६॥

सक्थिनी तव वासवकान्ते रामणीयकसारनिशान्ते । वन्दते विनयेन ममेयं वन्दिनस्तव पावनि वाणी ॥ ४५७॥

इन्द्रनारि कटिस्तव पृथ्वीमण्डलस्यतुला महनीये । मध्यमो नभसः प्रतिमानं भोगिनां भुवनस्य च नाभिः ॥ ४५८॥

धीरतां कुरुते विगतासुं सा सुपर्वपतेर्निशिताग्रा । सा तवाम्ब मनोभवशस्त्री रोमराजिरघं मम हन्तु ॥ ४५९॥

रोमराजिभुजङ्गशिशुस्ते देवि देवपतेर्हृदयस्य । दंशनेन करोत्ययि मोहं जीविताय चिराय विचित्रम् ॥ ४६०॥

पूर्णहेमघटविव शक्रावाहितां दधतावयि शक्तिम् । विश्वपोषणकर्मणि दक्षावम्ब दुग्धधरौ जयतस्ते ॥ ४६१॥

लोकमातरुरोरुहपूर्णस्वर्णकुम्भगता तव शक्तिः । लोकपालनकर्मणि वीर्यं देवि वज्रधरस्य बिभर्ति ॥ ४६२॥

अक्षयामृतपूर्णघटौ ते शक्रपत्नि कुचै तव पीत्वा । लोकबाधकभीकररक्षो धूनने प्रबभूव जयन्तः ॥ ४६३॥

हस्तयोस्तव मार्दवमिन्द्रो भाषतां सुषमामपि देवः । दातृतामनयोर्मुनिवर्गो वर्णयत्यजरे पटुतां च ॥ ४६४॥

पुष्पमाल्यमृदोरपि बाहोः शक्तिरुग्रतमाशरनाशे । दृश्यते जगतामधिपे ते भाषतां तव कस्तनुतत्त्वम् ॥ ४६५॥

कम्बुकण्ठि तवेश्वरि कण्ठस्तारहारवितानविराजी । देवराड्भुजलोचनपथ्यो देवि मे भणताद्बहुभद्रम् ॥ ४६६॥

आननस्य गभस्तिनिधेस्ते रामणीयकमद्भुतमीष्टे । अप्यमर्त्यनुताखिलसिद्धेर्वासवस्य वशीकरणाय ॥ ४६७॥

न प्रसन्नमलं रविबिम्बिं चन्द्रबिम्बमतीव न भाति । सुप्रसन्नमहोज्ज्वलमास्यं केन पावनि ते तुलयामः ॥ ४६८॥

लोचने तव लोकसवित्रि ज्योतिषः शवसश्च निधाने । वक्तुमब्जसमे ननु लज्जे धोरणीमनुसृत्य कवीनाम् ॥ ४६९॥

आयतोज्ज्वलपक्ष्मलनेत्रा चम्पकप्रसवोपमनासा । रत्नदर्पणरम्यकपोला श्रीलिपिद्युतिसुन्दरकर्णा ॥ ४७०॥

अष्टमीशशिभासुरभाला विष्टपत्रयचालकलीला । स्मेरचारुमुखी सुरभर्तुः प्रेयसी विदधातु शिवं मे ॥ ४७१॥

मन्दहासलवेषु वलक्षा मेचका चिकुरप्रकरेषु । शोणतामधरे दधती सा रक्षतु प्रकृतिस्त्रिगुणा नः ॥ ४७२॥

सर्वलोकवधूजनमध्ये यां श्रुतिस्सुभगामभिधत्ते । या दिवो जगतो रुचिसारस्तां नमामि पुरन्दररामाम् ॥ ४७३॥

स्वर्गभूपतिलोचनभाग्यश्रीश्शरीरवती जलजाक्षी । भारतस्य करोतु समर्थं रक्षणे नरसिंहतनूजम् ॥ ४७४॥

लोकमातुरिमे रमणीयाः पाकशासनचित्तरमण्याः । अर्पिताः पदयोर्विजयन्तां सत्कवेः कृतयो मणिरागाः ॥ ४७५॥

॥ चतुर्थो मेघवितानपादः ॥

अमरक्षितिपालकचेतो मदनं सदनं शुचितायाः । स्मितमादिवधूवदनोत्त्थं हरतादखिलं कलुषं मे ॥ ४७६॥

सुतरामधनामतिखिन्नामधुना बहुलं विलपन्तीम् । परिपातु जगत्त्रयनेत्री भरतक्षितिमिन्द्रपुरन्ध्री ॥ ४७७॥

स्थलमेतदमर्त्यनृपालप्रमदे तव मेघवितानम् । अयि यत्र परिस्फुसीशे तटिदुज्ज्वलवेषधरा त्वम् ॥ ४७८॥

तटिता तव भौतिकतन्वा जितमम्बुधरे विलसन्त्या । उपमा भुवि या ललितानां युवचित्तहृतां वनितानाम् ॥ ४७९॥

स्फुरितं तव लोचनहारि स्तनितं तव धीरगभीरम् । रमणीयतया मिलिता ते शचि भीकरता चपलायाः ॥ ४८०॥

चपले शचि विस्फुरसीन्द्रं घनजालपतिं मदयन्ती । दितिजातमवग्रहसंज्ञं जनदुःखकरं दमयन्ती ॥ ४८१॥

प्रभुमभ्रपतिं रमयन्ती दुरितं नमतां शमयन्ती । हरितां तिमिराणि हरन्ती पवमानपथे विलसन्ती ॥ ४८२॥

अलघुस्तनितं विदधाना बलमुग्रतमं च दधाना । हृदयावरकं मम मायापटलं तटिदाशु धुनोतु ॥ ४८३॥

सुरपार्थवजीवितनाथे निखिले गगने प्रवहन्त्याः । तटितस्तव वीचिषु काचिच्चपला लसतीह पयोदे ॥ ४८४॥

विबुधप्रणुते धनिकानां भवनेषु भवन्त्ययि दीपाः । पटुयन्त्रबलादुदितानां तव देवि लवाः किरणानाम् ॥ ४८५॥

व्यजनानि च चालयसि त्वं बत सर्वजगन्नऋपजाये । विबुधोऽभिदधात्वथवा को महतां चरितस्य रहस्यम् ॥ ४८६॥

इह चालित ईड्यमनीषैरयि यन्त्रविशेषविधिज्ञैः । बहुलाद्भुतकार्यकलापस्तटितस्तव मातरधीनः ॥ ४८७॥

अचरस्तरुगुल्मलतादिः सकलश्च चरो भुवि जन्तुः । अनिति प्रमदे सुरभर्तुस्तटितस्तव देवि बलेन ॥ ४८८॥

मनुते निखिलोऽपि भवत्या मनुजोऽनिति वक्तिश‍ृणोति । अवलोकयते च भणामः किमु ते जगदम्ब विभूतिम् ॥ ४८९॥

अतिसूक्ष्मपवित्रसुषुम्णापथतस्तनुषु प्रयतानाम् । कुलकुण्डकृशानुशिखा त्वं ज्वलसि त्रिदशालयनाथे ॥ ४९०॥

इतरो न सुरक्षितिपालात्कुलकुण्डगतो ज्वलनोऽयम् । इतरेन्द्रविलासिनि न त्वत्कुलकुण्डकृशानुशिखेयम् ॥ ४९१॥

कुलकुण्डकृशानुशिखायाः किरणैः शिरसि स्थित एषः । द्रवतीन्दुरनारतमेतद्वपुरात्ममयं विदधानः ॥ ४९२॥

मदकृद्बहुलामृतधारापरिपूतमिदं मम कायम् । विदधासि भजन्मनुजाप्ते कुलकुण्डधनंजयदीप्ते ॥ ४९३॥

शिरसीह सतः सितभानोरमृतेन वपुर्मदमेति । हृदि भात इनस्य च भासा मतिमेतु परां शचि चेतः ॥ ४९४॥

मम योगमदेन न तृप्तिनिजदेशदशाव्यथितस्य । अवगन्तुमुपायममोघं शचि भासय मे हृदि भानुम् ॥ ४९५॥

विदितः प्रमदस्य विधातुः शशिनो जनयित्रि विलासः । अहमुत्सुक ईश्वरि भानोर्विभवस्य च वेत्तुमियत्ताम् ॥ ४९६॥

वरुणस्य दिशि प्रवहन्ती मदमम्ब करोषि महान्तम् । दिशि वज्रभृतः प्रवहन्ती कुरु बुद्धिमकुण्ठितसिद्धिम् ॥ ४९७॥

अमलामधिरुह्य सुषुम्णां प्रवहस्यधुनाम्ब मदाय । अमृतामधिरुह्य च किञ्चित्प्रिवहेश्वरि बुद्धिबलाय ॥ ४९८॥

भरतक्षितिक्षणकर्मण्यभिधाय मनोज्ञमुपायम् । अथ देवि विधाय च शक्तं कुरु मां कृतिनं शचि भक्तम् ॥ ४९९॥

नरसिंहसुतेन कवीनां विभुना रचितैः कमनीयैः । परितृप्यतु मेघवितानैर्मरुतामधिपस्य पुरन्ध्री ॥ ५००॥

॥ पञ्चमं पाङ्क्तं शतकं समाप्तम् ॥

॥ अथ षष्ठं त्रैष्टुभं शतकम् ॥

॥ प्रथम उपजातिपादः ॥

मन्दोऽपि बोधं विदधन्मुनीनां स्वच्छोऽपि रागं त्रिदशेश्वरस्य । अल्पोऽपि धुन्वन्हरितां तमांसि स्मिताङ्कुरो भातु जयन्तमातुः ॥ ५०१॥

अशेषपापौघनिवारणाय भाग्यस्य पाकाय च देवराज्ञी । शोकाकुलां भारतभूमिमेतां लोकस्य माता हृदये करोतु ॥ ५०२॥

धर्मद्विषामिन्द्रनिरादराणां संहारकर्मण्यतिजागरूकाम् । देवीं परां देवपथे ज्वलन्तीं प्रचण्डचण्डीं मनसा स्मरामि ॥ ५०३॥

व्याप्ता तटिद्वा गगने निगूढा नारी सुरेशानमनोरमा वा । शक्तिः सुषुम्णापथचारिणी वा प्रचण्डचण्डीति पदस्य भावः ॥ ५०४॥

समस्तलोकावनिनायिकायाः सुपर्वमार्गेण शरीरवत्याः । मातुर्महोंशं महनीयसारं विज्ञानवन्तस्तटितं भणन्ति ॥ ५०५॥

निगूढतेजस्तनुरम्बिकेयं प्रचण्डचण्डी परितो लसन्ती । अव्यक्त्शब्देन शरीरवत्याः काल्याः कवीनां वचनेषु भिन्ना ॥ ५०६॥

शब्दं विना नैव कदापि तेजस्तेजो विना नैव कदापि शब्दः । शक्तिद्वयं सन्ततयुक्तमेतत्कथं स्वरूपेण भवेद्विभक्तम् ॥ ५०७॥

एकैव शक्तिर्ज्वलति प्रकृष्टा स्वरत्यपि प्राभवतः समन्तात् । क्रियाविभेदादिह पण्डितानां शक्तिद्वयोक्तिस्तु समर्थनीया ॥ ५०८॥

एकक्रियायाश्च फलप्रभेदात्पुनर्विभागः क्रियते बहुज्ञैः । कालीं च तारां स्वरमग्र्यमाहुः प्रचण्डचण्डीं ललितां च तेजः ॥ ५०९॥

सम्पद्यते शब्दगतेर्हि कालः शब्दो वरेण्यस्तदभाणि काली । ध्यातेन शब्देन भवं तरेद्यद्सुधास्ततः शब्दमुशन्ति ताराम् ॥ ५१०॥

यदक्षरं वेदविदामृषीणां वेदान्तिनां यः प्रणवो मुनीनाम् । गौरी पुराणेषु विपश्चितां या सा तान्त्रिकाणां वचनेन तारा ॥ ५११॥

सम्पद्यते संहृतिरोजसा यत्प्रचण्डचण्डी तदुदीरितौजः । सिध्येदशेषोऽनुभवो यदोजस्यतो बुधास्तां ललितां वदन्ति ॥ ५१२॥

प्रचण्डचण्डीं लघुना पदेन चण्डीं विदुः केचन बुद्धिमन्तः । एके विदः श्रेष्ठमहोमयीं तां लक्ष्मीं महत्पूर्वपदां वदन्ति ॥ ५१३॥

अतीव सौम्यं ललितेति शब्दं प्रचण्डचण्डीति पदं च भीमम् । देवी दधाना सुतरां मनोज्ञा घोरा च नित्यं हृदि मे विभातु ॥ ५१४॥

प्रचण्डचण्डीं तु शरीरभाजां तनूषु योगेन विभिन्नशीर्षाम् । शक्तिं सुषुम्णासरणौ चरन्तीं तां छिन्नमस्तां मुनयो वदन्ति ॥ ५१५॥

कपालभेदो यदि योगवीर्यात्सम्पद्यते जीवत एव साधोः । तमेव सन्तः प्रवदन्ति शीर्षच्छेदं शरीरान्तरभासि शक्तेः ॥ ५१६॥

उदीर्यसे निर्जरराजपत्नि त्वं छिन्नमस्ता यमिनां तनूषु । उज्जऋम्भणे विश्वसवित्रि यस्याः कायं भवेद्वैद्युतयन्त्रतुल्यम् ॥ ५१७॥

पितुर्नियोगात्तनयेन कृत्ते मस्ते जनन्याः किल रेणुकायाः । त्वमाविशः पावनि तत्कबन्धं तद्वा त्वमुक्तासि निकृत्तमस्ता ॥ ५१८॥

छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्तधाराम् । रामाम्बिकां दुर्जनकालरात्रिं देवीं पवित्रं मनसा स्मरामि ॥ ५१९॥

ध्रुवो रमा चन्द्रधरस्य रामा वाग्वज्रवैरोचसदीर्घनिर्ये । कूर्चद्वयं शस्त्रकृशानुजाये विद्यानृपार्णा सुरराजशक्तेः ॥ ५२०॥

मायाद्विवारं यदि सैकवर्णा विद्यैकवर्णा यदि धेनुरेका । धेन्वादि सम्बोधनमस्त्रमग्नेर्विलासिनी चेति धरेन्दुवर्णा ॥ ५२१॥

चतुष्टयेत्रन्यतमं गृहीत्वा मन्त्रं महेन्द्रस्य मनोधिनाथाम् । भजेत यस्तान्त्रिकदिव्यभावमाश्रित्य सिद्वीः सकलाः स विन्देत् ॥ ५२२॥

संहोत्रमित्यद्भुतशक्तियुक्तं वृषाकपेर्दर्शनमम्ब मन्त्रम् । यो वैदिकं ते मनुजो भजेत किञ्चिन्न तस्येह जगत्यसाध्यम् ॥ ५२३॥

प्रचण्डचण्डि प्रमदे पुराणि पुराणवीरस्य मनोधिनाथे । प्रयच्छ पातुं पटुतां परां मे पुण्यामिमामार्यनिवासभूमिम् ॥ ५२४॥

प्रपञ्चराज्ञीं प्रथितप्रभावां प्रचण्डचण्डीं परिकीर्तयन्त्यः । एताः प्रमोदाय भवन्तु शक्तेरुपासकानामुपजातयो नः ॥ ५२५॥

॥ द्वितीयो रथोद्धतापादः ॥

क्षालनाय हरितां विभूतये विष्टपस्य मदनाय वज्रिणः । तज्जयन्तजननीमुखाब्जतो निर्गतं स्मितमघं धुनोतु नः ॥ ५२६॥

अन्नलोपकृशभीरुकप्रजां भिन्नभावबलहीननेतृकाम् । वासवस्य वरवर्णिनी परैरर्दितामवतु भारतावनिम् ॥ ५२७॥

पाणिपादमनिमेषराज्ञि ते पारिजातनवपल्लवोपमम् । अक्षपाविरहमङ्गभासरिद्वासिचक्रमिथुनं कुचद्वयम् ॥ ५२८॥

पूर्णचन्द्रयशसोऽपहारकं सम्प्रसादसुषमास्पदं मुखम् । ज्ञानशक्तिरुचिशेवधीदृशौ रक्त्वर्णकसुधाघनोऽधरः ॥ ५२९॥

मर्दयत्तिमिरमुद्धतं दिशां अल्पमप्यधिकवैभवं स्मितम् । प्रावृडन्तयमुनातरङ्गवन्नत्न्लचारुरतिपावनः कचः ॥ ५३०॥

वल्लकीं च परुषध्वनिं वदन् दुःखितस्य च मुदावहः स्वरः । चारु हावशबलाऽलसा गतिः कायधामवचसां न पद्धतौ ॥ ५३१॥

योगसिद्धिमतुलां गता मतिश्चातुरी च बुधमण्डलस्तुता । विष्टपत्रितयराज्यतोऽप्यसि त्वं सुखाय महते बिडौजसः ॥ ५३२॥

त्वामुदीक्ष्य धृतदेवतातनुं दीप्तपक्ष्मलविशाललोचनाम् । आदितो जननि जन्मिनामभूद् वासवस्य रतिरादिमे रसे ॥ ५३३॥

आदिमं रसमनादिवासना वासितौ प्रथममन्वगृह्णताम् । सम्मदस्य निधिमादिदम्पती सोऽचलत्त्रिभुवने ततः क्रमः ॥ ५३४॥

ज्यायसा दिविषदां पुरातनी नीलकञ्जनयना विलासिनी । यद्विहारमतनोत्प्ररोचनं तत्सतामभवदादिमे रसे ॥ ५३५॥

न त्वदम्ब नलिनाननाऽधिका नापि नाकपतितोऽधिकः पुमान् । नाधिकं च वनमस्ति नन्दनान्नादिमादपि रसोऽधिको रसात् ॥ ५३६॥

नायिका त्वमसमानचारुता नायकः स मरुतां महीपतिः । नन्दनं च रसरङ्गभूः कथं मन्मथस्य न भवेदिहोत्सवः ॥ ५३७॥

देवि वां मृतिकथैव दूरतो जातुचिद्गलति नैव यौवनम् । काङ्क्षितः परिकरो न दुर्लभः किं रसः परिणमेदिहान्यथा ॥ ५३८॥

विष्टपस्य युवराजकेशवे त्राणभारमखिलं निधाय वाम् । क्रीडतोरमरराज्ञि नन्दने क्रीडितानि मम सन्तु भूतये ॥ ५३९॥

यद्युवाममरराज्ञि नन्दने कुर्वतो रहसि देवि मन्त्रणम् । तत्र चेन्मम कृतिर्मनागियं स्पर्शमेति भुवि को नु मत्कृती ॥ ५४०॥

क्रन्दनं यदि ममेह वन्दिनो नन्दने विहरतोः सवित्रि वाम् । अन्तरायकृदथाब्जकान्ति ते सम्प्रगृह्य चरणं क्षमापये ॥ ५४१॥

योषितामपि विमोहनाकृतिर्मोहनं तु पुरुषसंहतेरपि । इन्द्रमम्बरमयां बभूविथ त्वं रसार्द्रहृदया लसद्रसम् ॥ ५४२॥

दिव्यचन्दनरसानुलेपनैः पारिजातसुमतल्पकल्पनैः । चारुगीतकृतिभिश्च भेजिरे नाकलोकवनदेवताश्च वाम् ॥ ५४३॥

स्वर्णदीसलिलशीकरोक्षिताः पारिजातसुमगन्धधारिणः । नन्दने त्रिदशलोकराज्ञि वां केपि भेजुरलसाः समीरणाः ॥ ५४४॥

आदधासि सकलाङ्गनाधिके पद्मगन्धिनि सुधाधराधरे । मञ्जुवाणि सुकुमारि सुन्दरि त्वं सुरेन्द्रसकलेन्द्रियार्चनम् ॥ ५४५॥

आदिदेवि वदनं तवाभवत् कान्तिधाम मदनं दिवस्पतेः । आननादपि रसामृतं किरन्निष्क्रमं विलसितं कलं गिराम् ॥ ५४६॥

चारुवाग्विलसिताच्च निस्तुलप्रेमवीचिरुचिरं विलोकितम् । वीक्षितादपि विलासविश्रमस्थानमल्पमलसं शुचिस्मितम् ॥ ५४७॥

भासुरेन्द्रदृढबाहुपञ्जरे लज्जया सहजया नमन्मुखी । तद्विलोचनविकर्षकालका पातु मां त्रिदिवलोकनायिका ॥ ५४८॥

भारतक्षितिविषादवारणे तत्सुतं गणपतिं कृतोद्यमम् । आदधातु पटुमर्जुनस्मिता दुर्जनप्रमथनक्षमा शची ॥ ५४९॥

चारुशब्दकलिताः कृतीरिमाः सत्कविक्षितिभुजो रथोद्धताः । सा श‍ृणोतु सुरमेदिनीपतेर्नेत्रचित्तमदनी विलासिनी ॥ ५५०॥

॥ तृतीयो मौक्तिकमालापादः ॥

निर्मलभासां दिशि दिशि कर्ता पुण्यमतीनां हृदि हृदि धर्ता । पालयतान्मामनघविलासः शक्रमहिश्याः सितदरहासः ॥ ५५१॥

पुण्यचरित्रा मुनिजनगीता वासवकान्ता त्रिभुवनमाता । वत्सलभावादवतु विदूनां भारतभूमिं धनबलहीनाम् ॥ ५५२॥

कोटितटिद्वत्तव तनुकान्तिः पूर्णसमाधेस्तव हृदि शान्तिः । वासवभामे भगवति घोरः शत्रुविदारी तव भुजसारः ॥ ५५३॥

आश्रयभूतं सुमधुरताया आलयभूतं जलधिसुतायाः । वासवदृष्टेस्तवमुखमब्जं किङ्क्रदृष्टेस्तव पदमब्जम् ॥ ५५४॥

पादसरोजं वृजिनहरं ते यो भजते ना सुरपतिकान्ते । तत्र कटाक्षा अयि शतशस्ते तस्य समस्तं भगवति हस्ते ॥ ५५५॥

ज्ञापकशक्तिः प्रतिनरमस्तं कारकशक्तिः प्रतिनरहस्तम् । वासवचक्षुस्सुकृतफलश्रीर्भातु ममान्तः सुरभुवनश्रीः ॥ ५५६॥

मन्त्रपराणां वचसि वसन्ती ध्यानपराणां मनसि लसन्ती । भक्तिपराणां हृदि विहरन्ती भाति पराम्बा नभसि चरन्ती ॥ ५५७॥

सेवकपापप्रशमननामा दिक्तिमिरौघप्रमथनधामा । उज्ज्वलशस्त्रा रणभुवि भीमा पातु नतं मां हरिहयरामा ॥ ५५८॥

योगिनि शक्तिर्विलससि दान्तिः योषिति शक्तिर्विलससि कान्तिः । ज्ञानिनि शक्तिर्विलससि तुष्टिः धन्विनि शक्तिर्विलससि दृष्टिः ॥ ५५९॥

सङ्गिनि शक्तिर्विलससि निद्रा ध्यातरि शक्तिर्विलससि मुद्रा । वासवकान्ते गगननिशान्ते भाषितुमीशः क्व नु विभवं ते ॥ ५६०॥

यद्दितिजानां दमनमवक्रं केशवहस्ते विलसति चक्रम् । तत्र कला ते भगवति भद्रा काचन भारं वहति विनिद्रा ॥ ५६१॥

दुष्टनिशाटप्रशमनशीलं यत् सितभूभृत्पतिकरशूलम् । तत्र मर्महोंशस्तव जगदीशे राजति कश्चित्पटुररिनाशे ॥ ५६२॥

यन्निजरोचिक्र्ततरिपुसारं वासवहस्ते कुलिशमुदारम् । तत्र तवांशो विलसति दिव्यः कश्चन भासो भगवति भव्यः ॥ ५६३॥

अम्बरदेशे सुमहति गुप्ता पङ्क्जबन्धौ विलसति दीप्ता । राजसि मातर्हिमरुचिशीता वेदिकृशानौ क्रतुभृतिपूता ॥ ५६४॥

सूक्ष्मरजोभिर्विहितमुदारं यज्जगदेतन्न्गगनमपारम् । तत्तववेदः प्रवदति कायं पावनि भानुस्तव तनुजोऽयम् ॥ ५६५॥

ईश्वरि नैकस्तव खरतेजाः तेऽपि च सर्वे जननि तनूजाः । उज्वलखेटाः कुवदति कायाः पावनि कस्ते प्रवदतु मायाः ॥ ५६६॥

या महिमानं प्रथयति भूमिः पावनकीर्तिर्जलनिधिनेमिः । सेयमपीशे भवति सुपुत्री वासवजाये तव जनधात्री ॥ ५६७॥

अङ्ग सखायो विरमतसङ्गाश्वष्ठ्हर्विषयाणां कृतमतिभङ्गात् । ध्यायत चित्ते धुतभयबीजं वासवजायाचरणसरोजम् ॥ ५६८॥

पापमशेषं सपदि विहातुं शक्तिमनल्पामपि परिधातुम् । चेतसि साधो कुरु परिपूतं वासवजायापदजलजातम् ॥ ५६९॥

ईश्वरि वन्द्यद्युतिभृतिमेधे काङ्क्षितनीराण्यसृजति मोघे । निर्मलकीर्तेस्तव शचि गानं शक्ष्यति कर्तुं तदुदकदानम् ॥ ५७०॥

आमयवीर्याद्विगलति सारे जीवति किञ्चिद्रिसनगनीरे । रक्षति जन्तुं तव शचि नाम प्राज्ञजनैरप्यगणितधाम ॥ ५७१॥

मध्यमलोके स्यति शुचिरुग्रा राजसि नाके विभवसमग्रा । प्राणिशरीरे भवसि विचित्र वासवजाये विविधचरित्र ॥ ५७२॥

व्योम्नि वपुस्ते विनिहतपापं विश्रुतलीलं तव दिवि रूपम् । कर्मवशात्ते भवति स भोगः प्राणिशरीरे भगवति भागः ॥ ५७३॥

भारतभूमेः शुचमपहन्तुं श्रेष्ठमुपायं पुनरवगन्तुम् । वासवजाये दिश मम बुद्धिं पावनि माये कुरु कुरु सिद्धिम् ॥ ५७४॥

सम्मदयन्तीर्बुधजनमेताः स्वर्गधरित्रीपतिसतिपूताः । मौक्तिकमालाः श‍ृणु नुतिकर्तुर्भक्तिनिबद्धाः कविकुलभर्तुः ॥ ५७५॥

॥ चतुर्थः सुमुखीपादः ॥

अजितमिनाग्नितटिच्छशिभिः मम हृदयस्य तमः प्रबलम् । अमरपतिप्रमदाहसितं विमलघृणिप्रकरैर्हरतु ॥ ५७६॥

सुरनृपतेर्दयिता विनताहितशमनी लुलितामितरैः । वरकरुणावरुणालयदृङ्मम जननीमवतादवनिम् ॥ ५७७॥

पटुतपसो जमदग्निमुनेरिह सहधर्मचरीं भुवने । तनयनिकृत्तशिरः कमलां वरमतिमाविशदिन्द्रवधूः ॥ ५७८॥

यदुकुलकीर्तिविलोपभिया बतविनिगूह्य ऋतं कवयः । मुनिगृहिणी वधहेतुकथामितरपथेन भणन्ति मृषा ॥ ५७९॥

न सुरभिरर्जुनभूमिपतिर्भृगुतिलकस्य जहार स याम् । इयममृतांशुमनोज्ञमुखी परशुधरस्य जनन्यनघा ॥ ५८०॥

अतिरथमर्जुनभूमिपतिं सहपृतनं जमदग्निसुतः । युधि स विजित्य विशालयशाः पुनरपि मातरमाहृतवान् ॥ ५८१॥

परगृहवासकलङ्कवशान्निजगृहिणीं जमदग्निमुनिः । बतविनिहन्तुमना कलयंस्तनुभवमादिशदुग्रमनाः ॥ ५८२॥

पितृवचनादतिभक्तिमताप्यसुरवदात्मसुतेन हताम् । मुनिगृहिणीमनघेतिवदंस्तव वरदेऽविशदंश इमाम् ॥ ५८३॥

इदमविकम्प्यमतिप्रबलं प्रभवति कारणमार्यनुते । मुनिगृहिणीमनघां भणितुं शचि कलया यदि मामविशः ॥ ५८४॥

खलजनकल्पितदुष्टकथाश्रवणवशाद्व्यथितं हृदयम् । अथ चरितेऽवगते विमलस्मृतिवशतो मम याति मुदम् ॥ ५८५॥

तव महसा विशता कृपया मम शचि सूक्ष्मशरीरमिदम् । नृपरिपुमातृपवित्रकथा स्मरणपथं गमिता सपदि ॥ ५८६॥

विदधतुरासुरकृत्यमुभौ बहुलगुणामपि यद्गृहिणीम् । स मुनिरघातयदच्छकथां दशरथजश्च मुमोच वने ॥ ५८७॥

अपि विनिकृत्तशिराः शचि ते वरमहसा विशता सपदि । अलभत जीवितमम्ब पुनर्भुवनशुभाय मुनेस्तरुणी ॥ ५८८॥

यदि शिरसा रहिते वपुषि प्रकटतया विलसन्त्यसवः । यदि हृदयं सहभाति धिया किमिव विचित्रमितश्चरितम् ॥ ५८९॥

परशुधरस्य सवित्रि कला त्वयि पुरुहूतसरोजदृशः । स शिरसि काचिदभूद्रुचिरा विशिरसि भीमतमा भवति ॥ ५९०॥

परशुधरोऽर्जुनभूमिपतिं यदजयदम्ब तपोऽत्र तव । अभजत कारणतामनघे वरमुनिगेयपवित्रकथे ॥ ५९१॥

भगवति कृत्तशिरो भवती मथितवती नृपतीनशुभान् । प्रथनभुवि प्रगुणं भुजयोः परशुधराय वितीर्य बलम् ॥ ५९२॥

शुभतमकुण्डलपूर्वसतिः पदनतपातकसंशमनी । दिशतु निकृत्तशिराः कुशलं मम सुरपार्थवशक्तिकला ॥ ५९३॥

निजसुतरङ्गपतेर्निकटे कृतवसतिर्नतसिद्धिकरी । दलितशिराः प्रतनोतु मम श्रियममरेश्वरशक्तिकला ॥ ५९४॥

भुवि ततसह्यनगान्तरगे शुभतमचन्द्रगिरौ वरदा । कृतवसतिः कुरुतान्मम शं भृगूकुलरामजनन्यजरा ॥ ५९५॥

अवतु विकृत्तशिराः पदयोर्भजकमनिन्द्यविचित्रकथा । दिनकरमण्डलमध्यगृहा सुरधरणीपतिशक्तिकला ॥ ५९६॥

गगनचरार्चितपादुकया पदनतसन्मतिबोधिकया । मम सततं शुचिरेणुकया परवदिदं कुलमम्बिकया ॥ ५९७॥

शमयितुमुग्रतमं दुरितं प्रथयितुमात्मनिगूढबलम् । गमयितुमग्रय्दशां स्वकुलं तव चरणाम्बुजमम्ब भजे ॥ ५९८॥

परवशगामशिवेन वृतां भरतधरां परिपातुमिमाम् । पटुमतिवाक्क्रियमातनुताद्गणपतिमभ्रहयप्रमदा ॥ ५९९॥

गणपतिदेवमर्महोंशजुषो गणपतिनामकविप्रकवेः । सुरपतिजीवसखीश‍ृणुयाद्दशशतपत्रमुखी सुमुखीः ॥ ६००॥

॥ षष्ठं त्रैष्टुभं शतकं समाप्तम् ॥

॥ अथ सप्तमं जागतं शतकम् ॥

॥ प्रथमो द्रुतविलम्बितपादः ॥

सुरमहीरमणस्य विलासिनी जलचरध्वजजीवितदायिनी । हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥ ६०१॥

नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता । परिधुनोतु शची भरतक्षितेर्वृजिनजालमजालमकम्पनम् ॥ ६०२॥

अतितरां नतपालनलोलया विबुधनाथमनोहरलीलया । किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥ ६०३॥

घनहिरण्यमदापहरोचिषा वनरुहाननयाऽवनदक्षया । गतिमदिन्द्रमनोरथनाथया भुवनमेव न मे कुलमात्रकम् ॥ ६०४॥

तनुषु वामनमूर्तिधरे विभौ तमनुयाच विराजति वामनी । शरणवाननयाम्बिकया लसत् करुणयाऽरुणया पदयोरहम् ॥ ६०५॥

सकरुणा कुशलं मम रेणुकातनुरजा तनुतादुदितो यतः । युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्रभुजामदान् ॥ ६०६॥

सुजनशत्रुरमाथि घनध्वनिः शचि सरात्रिचरस्तव तेजसा । जननि रामसहोदरसायकं प्रविशताऽविशतादधिकौजसा ॥ ६०७॥

तव महःकलयाबलमाप्तया जननि शुम्भनिशुम्भमदच्छिदा । जगदरक्ष्यत गोपकुलेशितुस्तनुजयाऽनुजयार्जुनसारथेः ॥ ६०८॥

न विनिरूपयितुं प्रबभूव यां कविजनो विविधं कथयन्नपि । मुनिहृदम्बुजसौधतलेन्दिरा जयति सा यतिसाधुजनावनी ॥ ६०९॥

इममयि त्रिदिवेश्वरि कल्किनं रुषमपोह्य सवित्रि विलोकितैः । सुरपतेर्द्विषतोऽघवतो लसन् मदनकैरवकैरवलोचने ॥ ६१०॥

स्मरदमर्त्यनृपालविलासिनीं प्रबलपातकभीतिविनाशिनीम् । प्रवणयान्तरनन्यधिया लसद्विनययानययामवतीर्मनः ॥ ६११॥

भगवतीगगनस्थलचारिणी जयति सङ्गररङ्गविहारिणी । सुकृतशत्रुमतिभ्रमकारिणी हरिहयारिहयादिविदारिणी ॥ ६१२॥

शरणवानहमर्जुनहासया भुवनभूपतिहारिविलासया । दिवि पुलोमजया धवलाचले गिरिजयाऽरिजयावितदेवया ॥ ६१३॥

चरणयोर्धृतया विजयामहे वयमशेषजगन्नृपजायया । दिवि पुलोमजया धवलाचले नगजया गजयानविलासया ॥ ६१४॥

अरिवधाय विधाय बुधाधिपं पटुभुजाबलभीषणमाजिषु । न भवती शचि गच्छति दुर्गतः क्वचन काचन कातरधीरिव ॥ ६१५॥

सपदि मानसधैर्यहृतो जगज्जननि वज्रतनोर्ज्वलितार्चिषः । अरिजने प्रथमं तव वीक्षया सुरपतेरपतेजसि वि क्रमः ॥ ६१६॥

न मननोचितमस्ति परं नृणां विबुधराजवधूपदपद्मतः । जगति दर्शनयोग्यमिहापरं न रमणी रमणीयमुखाब्जतः ॥ ६१७॥

शरणवानहमस्मि पुरातनप्रमदया मुनिगेयचरित्रया । स्वबलचालितनाकजगन्नभो वसुधया सुधया सुरराड्दृशाम् ॥ ६१८॥

अयमहं गतिमानतिशान्तया त्रिदिवभूमिपतिप्रियकान्तया । मनसि मौनिजनैरतिभक्तितो निहितया हितया सुकृतात्मनाम् ॥ ६१९॥

विनयतः स्तुतया गमयाम्यहं जनिमतां जनयित्रि निशास्त्वया । प्रसृतया कुलकुण्डधनञ्जयाद्धृततनूततनूतनवेगया ॥ ६२०॥

सकृदमोघसरस्वतिसाधुधी हृदयवेद्यपदाम्बुजसौष्ठवे । मम शिवं सुमनः पृथिवीपतेः सुवदने वद नेत्रलसद्दये ॥ ६२१॥

दुरवगाहपथे पतितं चिराज्जननि गम्यविलोकनलालसम् । स्वयममर्त्यनृपालमनोरमे सुनयने नयनेयमिमं जनम् ॥ ६२२॥

अवतु नः स्वयमेव पटून् विपद्विमथनाय विधाय बुधेश्वरी । सकलमर्मसुवीतदयैः परैर्विनिहतानिह तापवतः शची ॥ ६२३॥

सुरधरापतिजीवितनाथया स्वजननक्षितिरक्षणकर्मणि । पटुतमो जन एष विधीयतामिह तया हतया तु समूहया ॥ ६२४॥

गणपतेः श‍ृणुयादिममुज्वलं द्रुतविलम्बितवृत्तगणं शची । सलिलराशिसुताभवनीभवद्भुवनपावनपादसरोरुहा ॥ ६२५॥

॥ द्वितीयो जलोद्धतगतिपादः ॥

हरित्सु परितः प्रसादमधिकं दधानममलत्विषां प्रसरणैः । महेन्द्रमहिलाविलासहसितं मदन्तरतमो धुनोतु विततम् ॥ ६२६॥

प्रसूस्त्रिजगतः प्रिया मघवतः कृपाकलितया कटाक्षकलया । नितान्तमगतेर्विकुण्ठितमतेर्धुनोतु भरतक्षितेरकुशलम् ॥ ६२७॥

पुरा शचि मतिस्त्वमीशितुरथो नभस्तनुमिता पृथङ्मतिमती । अनन्तरमभूः सरोजनयना तनुः सुरपतेर्विलोचनसुधा ॥ ६२८॥

परत्र विगुणा सतोऽसि धिषणा नभस्तनुरिह प्रपञ्चमवसि । असि स्वरबला प्रिया सुरपतेरियत्तव शचि स्वरूपकथनम् ॥ ६२९॥

प्रजापतिपदे पुराणपुरुषे स्मृता त्वमदितिः सुरासुरनुते । जनार्दनपदे रमासि परमे सदाशिवपदे शिवा त्वमजरे ॥ ६३०॥

उषा इनपदे स्वधाऽनलपदे पुरन्दरपदे त्वमीश्वरि शची । यथा रुचिविदुः पदानि कवयश्चितैश्च चितिमान्युवामृजुगिरा ॥ ६३१॥

अमेयममलं पुराणपुरुषं तदीयविभवाभिधायिभिरिमे । वदन्ति कवयः पदैर्बहुविधैस्तथैव भवतीं ततो मतभिदाः ॥ ६३२॥

नभश्च पवनः स्वरश्च परमस्तटिच्च वितता पतिश्च महसाम् । सुधांशुरनलो जलं च पृथिवी सवित्रि युवयोर्विभूतिपटली ॥ ६३३॥

अपारबहुलप्रमोदलहरी सतः किलचितिः परत्र वितता । पुनर्वियदिदं परीत्य निखिलं जगन्ति दधती परा विजयते ॥ ६३४॥

न यद्यपि परात्परे नभसि ते सरोजनयना वपुः पृथगजे । तथापि नमतां मतीरनुसरन्त्यमेयविभवे दधासि च तनूः ॥ ६३५॥

सह त्रिभुवनप्रपालनकृता समस्तमरुतां गणस्य विभुना । सदा शशिमुखी शरीरभृदजा जगत्यदुरिते शची विजयते ॥ ६३६॥

कुलं बहुभिदं बलं न भुजयोः कथं नु विपदस्तरेम भरताः । समर्थमधुना विपद्विधुतये तवाम्ब चरणं व्रजामि शरणम् ॥ ६३७॥

समस्तमपि च स्वदेशविदुषां विधानपटलं बभूव विफलम् । अभाग्यदमनक्षमं तदधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३८॥

निजो मम जनो नितान्तमगतिर्न कुक्षिभरणेऽप्ययं प्रभवति । महेश्वरि कृपामरन्दमधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३९॥

अदृष्टकनकं कुलं मम चिरान्निरायुधमिदं निराशमभितः । स्वभावत इव प्रबद्धमभवत्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४०॥

अवीरचरितं विपालककथं निरार्षविभवं चिरान्मम कुलम् । इदं मम मनो निकृन्तति मुहुस्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४१॥

चिरात्स्मृतिपथादपि च्युतमजे तपोबलभवं तमार्षविभवम् । स्वदेशमधुना पुनर्गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४२॥

हतं च विहतं धुतं च विधुतं रुदन्तमभितो विशिष्टकरुणे । इमं स्वविषयं शिवं गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४३॥

क्षयाय सुकृतद्विषां विहरतां शिवाय च सतां प्रपञ्चसुहृदाम् । निजस्य मनसो बलाय च परे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४४॥

जयत्सु सुकृतं द्विषत्सु परितः सतामपि कुले बलेन रहिते । खलप्रिययुगे कलौ परिणते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४५॥

अभाति सुकृते निगूढविभवे विभाति दुरिते फलानि दिशति । विधानविकले मनस्यभयदे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४६॥

पटौ प्रतिभटे गदे प्रतिभये नतावनविधावतीव निपुणम् । सुपर्वभुवनक्षितीशदयिते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४७॥

अमर्त्यपटलीकिरीटमणिभाभुजङ्गकिरणं नितान्तमरुणम् । विपत्तिदमनं तमः प्रशमनं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४८॥

विनष्टविभवामिमां पुनरपि श्रियाविलसितां विधातुमजरे । स्वजन्मपृथिवीं स्वरीशदयिते दिशेर्गणपतेः कराय पटुताम् ॥ ६४९॥

सुपर्ववसुधाधिनाथसुदृशो जलोद्धतगतिस्तवोऽयमनघः । कृतिर्गणपतेः करोतु विधुतिं भयस्य भरतक्षमातलजुषाम् ॥ ६५०॥

॥ तृतीयः प्रमिताक्षरपादः ॥

उदितं महेन्द्रमहिलावदने प्रसृतं करैर्दिशि दिशि प्रगुणैः । अहितं तमः प्रशमयद्यमिनां हसितं करोतु मम भूरि शिवम् ॥ ६५१॥

भरतक्षितेस्तिमिरमाशु हरत्वरिचातुरीकृतविमोहमतेः । रविलक्षतोऽप्यधिकमंशुमती पविपाणिचित्तदयिता वनिता ॥ ६५२॥

शशिलक्षशीतलकटाक्षसुधा तरुणार्ककोटिरुचिपादयुगा । हृदि मे विभातु मुनिगेयगुणा विबुधेन्द्रचित्तरमणी तरुणी ॥ ६५३॥

कमनीयदीप्तसुकुमारतनुर्मननीयपावनपदाम्बुरुहा । विदधातु मे शिवमसद्विमुखी विबुधेन्द्रजीवितसखी सुमुखी ॥ ६५४॥

अनुमानमूढपितृवाक्यवशात्तनयेन देवि विनिकृत्तशिराः । तव रेणुका विलसिता कलया गणनीयशक्तिरभवद्दशसु ॥ ६५५॥

सकलामयप्रशमनं दुरितक्षयकारिकाङ्क्षितकरं च भवेत् । सुरसुन्दरी जनसमर्चतयोर्हृदि रेणुकाचरणयोः करणम् ॥ ६५६॥

विनिहन्ति पापपटलं स्मरणाद्विधुनोति रोगनिवहं भजनात् । विदघाति वाञ्छिततफलं स्तवनान्मनुजस्य रामजननी चरणम् ॥ ६५७॥

शरणं व्रजामि नवरव्यरुणं चरणं तवाम्ब नृपजातिरिपोः । भरतक्षितेरवनतः प्रथमं मरणं ममेह न भवत्वधमम् ॥ ६५८॥

स्मरणं चिरादविरतं विदधच्चरणस्य ते तरुणभानुरुचः । अयमस्तु रामजनयित्रिपटुः सुरकार्यमार्यविनुते चरितुम् ॥ ६५९॥

अव भारतक्षितिममोघदये करणं भवत्विह तवैष जनः । निजयोः सवित्रि चरणाम्बुजयोर्न विहातुमर्हसि चिराद्भजकम् ॥ ६६०॥

अविशस्त्वमिन्द्रदयिते किलतामपि यज्ञसेनतनयां कलया । अनघव्रतासु कवयः प्रथमां प्रवदन्ति यां बहुलवन्द्यगुणाम् ॥ ६६१॥

भुवि भारतं पठति यः सुकृती कलुषं धुनोति सकलं किल सः । इयमम्ब शक्तिकुलराज्ञि तव द्रुपदस्य नन्दिनि कथामहिमा ॥ ६६२॥

अभिमन्युमातरमनल्पगुणामतिलङ्घ्य चैक्षत हरिर्भवतीम् । अतिसौहृदेन यदिहार्यनुते तव हेतुरीड्यतमशक्तिकला ॥ ६६३॥

गृहकार्यतन्त्रचतुरा गृहीणी सकलीन्द्रियामृतझरी रमणी । वरनीतिमार्गकथने सचिवोऽप्यभवस्त्वमम्ब कुरु वंशभृताम् ॥ ६६४॥

न युधिष्ठिरस्य वरघोरतपो न धनञ्जयस्य पटु बाहुबलम् । अरिसङ्क्षयं कृतवती बहुलं तव वेणिकाऽपचरिता फणिनी ॥ ६६५॥

असितापि कान्तिवसतिर्महती वनिताजनस्य च विमोहकरी । कुशलं ममाभ्रपतिशक्तिकला द्रुपदक्षितीन्द्रदुहिता दिशतु ॥ ६६६॥

शिरसा समस्तजनपापभरं वहतो भवाय भुवि यामवृणोत् । अमराधिपः पतितपावनि तां भुवि कन्यकां तव विवेश कला ॥ ६६७॥

कलया तवातिबलया कलिता पुरुषस्य योगमखिलाम्ब विना । अखिलेश्वरप्रहिततेज इयं सुतजन्मने किल दधावनघा ॥ ६६८॥

सुररक्षकस्य मदयित्रि दृशां नररक्षकस्य जनयित्रि परे । कुलरक्षणाय कृतबुद्धिमिमं कुरु दक्षमद्भुतपवित्रकथे ॥ ६६९॥

मुमुचुः कुले मम सुपर्वपतेस्तव चाभिधेयमिह मन्दधियः । अपराधमेतमतिघोरतरं जननि क्षमस्व मम वीक्ष्य मुखम् ॥ ६७०॥

इह शारदेति यतिभिर्विनुता प्रथिता सुरेश्वरमनोदयिता । भुवि भाति कीर्तिवपुषा शचि या सुकथापि सा तव सवित्रि कला ॥ ६७१॥

अरुणाचलेश्वरदरीवसतेस्तपतो मुनेर्गणपतेः कुशलम् । विविधावतारविलसच्चरिता वितनोतु सा विबुधराड्वनिता ॥ ६७२॥

अरुणाचलस्य वरकन्दरया प्रतिघोषितं कलुषहारि यशः । विबुधाधिनाथरमणी श‍ृणुयाद्गणनाथगीतमतिचारुनिजम् ॥ ६७३॥

भरतक्षितेः शुभविधायिषु सा विबुधक्षितीशदयिता दयया । धनशक्तिबन्धुबलहीनमपि प्रथमं करोतु गणनाथमुनिम् ॥ ६७४॥

मुदितामिमा विदधतु प्रमदां त्रिदिवाधिपस्य निपुणश्रवणाम् । अमितप्रकाशगुणशक्तिमजां प्रमिताक्षराः सुकविभूमिपतेः ॥ ६७५॥

॥ चतुर्थस्तामरसपादः ॥

दिशतु शिवं मम चन्द्रवलक्षस्तिमिरसमूहनिवारणदक्षः । कृतगतिरोधकपातकनाशः सुरधरणीशवधूस्मितलेशः ॥ ६७६॥

अविदितमार्गतयातिविषण्णां गतिमपहाय चिराय निषण्णाम् । भरतधरामनिमेषधरत्री पतिगृहिणी परिपातु सवित्री ॥ ६७७॥

भुवनमिदं भवतः किल पूर्वं यदमलरूपमनाकृतिसर्वम् । प्रकृतिरियं कुरुताददरिद्रामतिमतिशाततरां मम भद्रा ॥ ६७८॥

सृजति जगन्ति विभौ परमे या सुबहुलशक्तिरराजत माया । प्रदिशतु सा मम कञ्चन योगं झटिति निराकृतमानसरोगम् ॥ ६७९॥

प्रतिविषयं विकृतीतर सत्ता विलसति या मतिमद्भिरुपात्ता । इयमनघा परिपालितजातिं वितरतु मे विविधां च विभूतिम् ॥ ६८०॥

प्रतिविषयग्रहणं परिपूतामतिरखिलस्य जनस्य च माता । मम विदधातु शुभं शुभनामा त्रिदिवनिवासिनरेश्वररामा ॥ ६८१॥

गगनतनुर्जगतो विपुलस्य प्रभुपदमग्रय्मिता सकलस्य । प्रतिजनदेहमजा प्रवहन्ती मम हृदि नन्दतु सा विहरन्ती ॥ ६८२॥

पटुकुलकुण्डधनञ्जयकीला समुदितहार्दविभाकरलीला । द्रुतशिर इन्दुकलामृतधारा जनमवतान्निजभक्तमुदारा ॥ ६८३॥

विषयसमाकृतिरत्र पुरस्ताद्विमलतमा किल तत्र परस्तात् । भुवनमयी भुवनाच्च विभक्तामतिरनघाऽवतु मामतिशक्ता ॥ ६८४॥

विषयपरिग्रहणेष्वतिसक्ता विषयविभूतिषु कापि विविक्ता । अखिलपतेर्मयि दीव्यतु शक्तिर्विमलतमा विधुतेतरशक्तिः ॥ ६८५॥

दृशि दृशि भाति यदीयमपापं दिशि दिशि गन्तृ च वेत्तृ च रूपम् । भवतु शिवाय ममेयमनिन्द्या भुवनपतेर्गृहिणी मुनिवन्द्या ॥ ६८६॥

जडकुलकुण्डदरीषु शयाना बुधकुलवह्निषु भूरिविभाना । हरिहयशक्तिरमेयचरित्र मम कुशलं विदधातु पवित्र ॥ ६८७॥

दहरगताखिलमाकलयन्ती द्विदलगता सकलं विनयन्ती । दशशतपत्रगता मदयन्ती भवतु मयीन्द्रवधूर्विलसन्ती ॥ ६८८॥

गृहयुगलीश्रिय आश्रितगम्या पदकमलद्वितयी बहुरम्या । मम हृदि भात्वविकुण्ठितयाना हरिसुदृशस्तरुणारुणभाना ॥ ६८९॥

उपरि तता कुलकुण्डनिशान्ताज्ज्वलितधनञ्जयदीधितिकान्तात् । हरिहयशक्तिरियं मम पुष्टा द्रवयतु मस्तकचन्द्रमदुष्टा ॥ ६९०॥

नभसि विराजति या परशक्तिर्मम हृदि राजति या वरशक्तिः । उभयमिदं मिलितं बहुवीर्यं भवतु सुखं मम साधितकार्यम् ॥ ६९१॥

त्रिभुवनभूमिपतेः प्रिययोषा त्रिमलहरी सुरविष्टपभूषा । मम वितनोतु मनोरथपोषं दुरितविपत्तिततेरपि शोषम् ॥ ६९२॥

पवनजगत्प्रभुपावनमूर्तिर्जलधरचालनविश्रुतकीर्तिः । मम कुशलाय भवत्वरिभीमा जननवतां जननी बहुधामा ॥ ६९३॥

मम सुरराजवधूकलयोग्रा खलजनधूननशक्तनखाग्रा । दमयतु कृत्तशिराः कलुषाणि प्रकटबला हृदयस्य विषाणि ॥ ६९४॥

कुलिशिवधूकलया परिपुष्टा बुधनुतसन्नुणजालविशिष्टा । मम परितो विलसद्विभवानि द्रुपदसुता विदधातु शिवानि ॥ ६९५॥

सुरजनराड्दयितांशविदीप्ते पदकमलाश्रितसाधुजनाप्ते । दुरितवशादभितो गतभासं मनुजकुमारजनन्यवदासम् ॥ ६९६॥

अमरनरेश्वरमन्दिरनेत्री सुमशरजीवनसुन्दरगात्री । भवतु शची विततस्वयशस्सु प्रतिफलिता गणनाथवचस्सु ॥ ६९७॥

विकसतु मे हृदयं जलजातं विलसतु तत्र शचीस्तुतिगीतम् । स्फुरतु समस्तमिहेप्सितवस्तु प्रथिततमं मम पाटवमस्तु ॥ ६९८॥

कुरु करुणारससिक्तनिरीक्षे वचनपथातिगसन्नुणलक्षे । शचि नरसिंहजमाहितगीतं भरतधरामवितुं पटुमेतम् ॥ ६९९॥

सुललिततामरसैः प्रसमाप्तं वरनुतिबन्धमिमं श्रवणाप्तम् । जननि निशम्य सुसिद्धमशेषं हरिललने मम कुर्वभिलाषम् ॥ ७००॥

॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतौ इन्द्राणीसप्तशती समाप्ता ॥